Himachal News : सूरजहत्याप्रकरणे जैदीसहितं अष्टपुलिसकर्मचारिभ्य: आजीवनकारावास:
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
हिमाचलप्रदेशे वर्ष २०१७ तमे वर्षे शिमलामण्डलस्य कोटखाईक्षेत्रे बहुचर्चितगुडियाबलात्कारहत्याप्रकरणे (Gudiya Rape and Murder Case) गृहीतस्य अभियुक्तस्य सूरजस्य बन्दीगृहत्यायाः प्रकरणे चण्डीगढस्य सीबीआई न्यायालयेन सोमवासरे दोषीपुलिसकर्मचारिणां दण्डविषये निर्णयः घोषितः न्यायालयेन अस्मिन् प्रकरणे दोषी इति ज्ञातस्य पूर्व-आईजी आईपीएस-जहूर-हैदर-जैदी-सहितं अष्टानां पुलिस-अधिकारिणां, कर्मचारिणां च आजीवनकारावासस्य दण्डः दत्तः अस्ति। सर्वेषु अपराधिषु एकलक्षरूप्यकाणां दण्डः अपि कृतः अस्ति । ततः पूर्वं सोमवासरे प्रातःकाले सीबीआई न्यायालयेन दोषीणां अन्तिमाया: प्रार्थनाया: श्रवणं कृतम्। सम्भवतः हिमाचलप्रदेशस्य इतिहासे प्रथमवारं यदा प्रकरणस्य अन्वेषणं कुर्वन् विशेषनिरीक्षणदलं (एसआइटी) आजीवनकारावासस्य दण्डं प्राप्नोति। 18 जनवरी दिनाङ्के सीबीआई न्यायालयेन जैदी इत्यस्य साक्षिणः वक्तव्यस्य साक्ष्यस्य च आधारेण दोषी इति कृत्वा तत्कालीनः डीएसपी मनोज जोशी, पुलिस उपनिरीक्षकः राजिन्दरसिंहः, एएसआई दीपचन्दशर्मा, मानकप्रमुखः हवलदारः मोहनलालः, सूरतसिंहः, मुख्यारक्षी रफी मोहम्मदः च तथा हवलदार रणजीत सटेटा बुरैलकारागारे निरुद्धाः आसन्।
न्यायालयेन सर्वेषां अभियुक्तानां कृते IPC Act १२०-B इत्यस्य अन्तर्गतं आजीवनकारावासः, २० सहस्ररूप्यकदण्डः, ३०२ इत्यस्य अन्तर्गतं आजीवनकारावासः, २० सहस्ररूप्यकदण्डः च, ३३० इत्यत्र ३ वर्षाणाम् कारावास: १० सहस्ररूप्यकदण्डस्य च दण्डः दत्तः, ३४८ इत्यस्यान्तर्गतं एकवर्षं ५ सहस्ररूप्यकदण्डस्य च दण्डः दत्तः अस्ति , १२०-बी, १९५ इत्यस्य अन्तर्गतं आजीवनकारावासः, २०,००० रूप्यकाणां दण्डः, १९६ इत्यत्र त्रीणि वर्षाणि १०,००० रूप्यकाणि च, २१८ इत्यत्र एकवर्षं, १० सहस्ररुप्यकाणि, २०१ इत्यत्र च एकवर्षं दण्डं ५,००० रूप्यकाणां दण्डः च दण्डितः अभवत् । ध्यातव्यं सूरजस्य हत्या गुडिया हत्याकाण्डस्य १४ दिवसाभ्यन्तरे कोटखाई-पुलिस-स्थानस्य बन्दीगृहे अभवत् । पुलिसैः अन्यस्य अभियुक्तस्य विरुद्धं हत्यायाः आरोपः कृतः आसीत् । तेन क्रुद्धाः जनाः पुलिस-स्थानसहिताः अनेकानि वाहनानि दग्धवन्तः ।