महाकुम्भ 2025 -: निःशुल्क- स्वास्थ्यसेवाः प्रददाति आयुष्-मन्त्रालयः
तीर्थराजे प्रयागराजे-नगरस्य महाकुंभे आयुष्-मन्त्रालयः भक्तानां आगन्तुकानां च कृते निःशुल्क- स्वास्थ्यसेवाः प्रददाति। एकविंशत्यधिकैकलक्ष सङ्ख्यकाः श्रद्धालवः आयुष-सेवायाः लाभान् प्राप्तवन्तः इति। आयुष- मन्त्रालयः महाकुंभे देशविदेशभ्यां आगम्यमानानां भक्तानां कृते निःशुल्क-स्वास्थ्यसेवाः प्रददाति । अशीति वैद्यानां दलमेकं विशंति बाह्यरोगिविभाग द्वारा अहर्निशं स्वास्थ्यसेवाः प्रद्दति। वैदेशिकै भक्तैः अपि ओ. पी. डी. इति परामर्शसहितानि आयुष-सेवाः उपयुञ्जन्ते। वृद्धानां स्वास्थ्यस्य विषये विशेषम् अवधानं दातुं आयुष-वैद्यानाम् एकः समूहः समर्पितः अस्ति। एतदतिरिच्य, मोरार्जी देसायी राष्ट्रिय-योग-संस्थानस्य प्रशिक्षकैः सङ्गम्-क्षेत्रे निर्दिष्टस्थानेषु प्रतिदिनं प्रातःकाले योग-सत्राणि आयोज्यन्ते। एतेषु सत्रेषु अन्ताराष्ट्रियभक्तानां सहभागिता स्थानीयानां वैश्विकानां च जनेषु आयुष-सेवां प्रति वर्धमानं रुचिं विश्वासं च प्रतिबिम्बयति।
महाकुम्भ 2025 -: निःशुल्क- स्वास्थ्यसेवाः प्रददाति आयुष्-मन्त्रालयः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment