भारतस्य युवशक्तिः महत्वपूर्ण परिवर्तनं विदधाति- प्रधानमन्त्री नरेन्द्रमोदी
हिमसंस्कृतवार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अवोचत् यत् यूनां शक्तिः शीघ्रमेव भारतं विकसितराष्ट्रं विधास्यति। राजधान्यां नवदिल्ल्यां भारत-मण्डपे प्रधानमन्त्री नरेन्द्र मोदी ऐषमः विकसित भारत युवनेतृ संवादं सम्बोधयति स्म। श्रीमोदी अवोचत् यत् भारतस्य युवशक्तिः महत्वपूर्ण परिवर्तनं विदधाति। राष्ट्रिय युवदिवसस्य अवसरे प्रधानमन्त्री विश्वासं प्रकटयत् यत् नवसंततयः युवसन्ततयः च सर्वासां समस्यानां समाधानम् अन्वेष्यन्ति। श्रीमोदी अवोचत् यत् महत्वपूर्ण लक्ष्य प्राप्तये समेषां देशवासिनां प्रतिभागिता समेकित प्रयासाः च आवश्यकाः। प्रधानमन्त्रिणा उक्तं यत् पूर्णविकसित भारतं आर्थिकरूपेण सामाजिकरूपेण तार्किकरूपेण सांस्कृतिकरूपेण च समृद्धं भविष्यति। अमुना उक्तं यत् विगते दशके पंच विंशतिः कोट्याधिकाः जनाः निर्धनतातः समुत्थापिताः। प्रधानमन्त्री नरेन्द्र-मोदी अवोचत् यत् सम्पूर्ण राष्ट्र अद्य स्वामीविवेकानन्दस्य स्मरणं करोति। स्वामी विवेकानन्दः युवभ्यः शाश्वत-प्रेरणा वर्तते। तेभ्यः निरन्तरं शक्ति-प्रदानं च करिष्यति। तेनोक्तं यत् प्रशासनं स्वामि-विवेकानन्दस्य विकसित-भारतस्य लक्ष्य प्राप्तये वचनबद्धं वर्तते। अस्य प्रमाणम् अस्ति चन्द्रयानस्य सफलता। इदानीं वयं गगन-यानस्य सज्जतां कुर्मः। भारतं च त्रिंशदुत्तर-द्वि- सहस्र-वर्षं यावत् स्वकीयम् अन्तरिक्ष केन्द्रं स्थापयिष्यति। अवधेयं यत् त्रिदिवसीयः विकसित- भारत-युवनेतृ-संवादः शुक्रवासरे आरब्धः। अस्मिन् अवसरे श्रीमोदिना त्रिसहस्र युवनेतृभिः सह संवादो विहितः। अत्रावसरे प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रतिभागिभिः लिखिताः निबंधाः अपि लोकार्पिताः। इमे निबंधाः दश-विषयेषु लिखिताः सन्ति ।
देशे हर्षोल्लासेन मानितःराष्ट्रिययुवदिवसः
देशे जनवरी मासस्य 12 दिनांकः स्वामिनो विवेकानन्दस्य जयन्ती राष्ट्रिय-युवदिवसः च मानितः। महान् आध्यात्मिक- गुरवे दार्शनिक-चिन्तकाय स्वामि-विवेकानन्दाय राष्ट्रपतिना उपराष्ट्रपतिना प्रधानमन्त्रिणा च श्रद्धाञ्जलिः समर्पिता। एकस्मिन् सामाजिक-सञ्चार-पटले राष्ट्रपतिनोक्तं यत् स्वामिना विवेकानन्देन देशस्य महान् आध्यात्मिक सन्देशः पश्चिम-जगति प्रचारितः। येन भारतीय- नागरिकेषु आत्मविश्वासः उत्पन्नः। तयोक्तं यत् स्वामि-विवेकानन्देन युवानः राष्ट्र-निर्माणे मानवतायाः सेवायां च योगदानाय प्रेरिताः। राष्ट्रपतिना कामना कृता यत् स्वामिनो विवेकानन्दस्य रिक्थम् एवमेव स्थास्यति, जगति असङ्ख्य-जनान् च प्रेरयिष्यति। उपराष्ट्रपतिना जगदीप-धनखडेन उक्तं यत् स्वामि- विवेकानन्देन त्रि-नवत्यधिक- अष्टादश-शततमे वर्षे शिकाँगो नगरे धर्म-संसदि भारतस्य आध्यात्मिकतायाः वर्चस्वं स्थापितम्। देशस्य समावेशि-लोकाचारम् च अभिव्यक्तम्। स्वामि-विवेकानन्देन भारतीय-जनाः स्वाभिमानाय आत्मविश्वासाय मानवतायाः च सेवायै च प्रेरिताः।
भारतस्य युवशक्तिः महत्वपूर्ण परिवर्तनं विदधाति- प्रधानमन्त्री नरेन्द्रमोदी
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment