Medical Science : अग्नाशयस्य कर्करोगस्य चिकित्सायां शल्यक्रियारहिताः तकनीकाः प्रभाविणः इति शोधकार्ये ज्ञातम्
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
अग्नाशयस्य कर्करोगविषये कृतेषु शोधकार्य्येषु वैद्याः महतीं सफलतां प्राप्तवन्तः । अग्नाशयस्य कर्करोगेण पीडितानां रोगिणां चिकित्सायां केमो, रेडियोथेरेपी इत्यादीनि अशल्यचिकित्सा अधिकानि प्रभाविणः भवन्ति । हिमाचल-पञ्जाब-हरियाणा-प्रदेशेभ्य: ५८ तः ६१ वर्षाणि यावत् आयुषः रोगिणां विषये कृतेषु शोधकार्य्येषु एतत् प्रकाशितम् अस्ति । अग्नाशयस्य कर्करोगः गम्भीरः रोगः अस्ति । अस्मिन् रोगे अग्नाशये कर्करोगकोशिकानां विकासः भवति । मृत्योः चतुर्थं प्रमुखं कारणम् अस्ति ।
आईजीएमसी, पीजीआई इत्येतयोः वैद्यदलेन २०१९ तः २०२२ पर्यन्तं परीक्षणरूपेण ८० रोगिणां विषये शोधः कृतः । आईजीएमसी के सर्जिकलगैस्ट्रो-विभागस्य सहायकप्राध्यापक: डॉ. विपिनकुमारशर्मा इत्यनेन उक्तं यत् अ-शल्यचिकित्सा (एनएसीआरटी) क्रियमाणाः ४१ रोगिणः, शल्यक्रियां कुर्वन्तः ३९ रोगिणः च द्वयोः समूहयोः विभक्ताः आसन्। रेडियो-रसायनचिकित्सायाः माध्यमेन ४१ रोगिणां चिकित्सा कृता । द्वितीयसमूहस्य रोगिणां परीक्षणानन्तरं प्रत्यक्षं शल्यक्रिया अभवत् । यदि प्रथमं रोगिणां अशल्यचिकित्सा क्रियते तर्हि तेषां निवृत्तिः भवितुम् अर्हति इति प्रकाशितम् अस्ति । अपरपक्षे एतत् शोधपत्रं जर्नल-आफ-कैंसर-रिसर्च- एण्ड-थेरेपिटिक्स इति पत्रिकायां अपि प्रकाशितम् अस्ति । परन्तु अस्य पद्धतेः लाभं स्थापयितुं बहुकेन्द्रितस्य अध्ययनस्य आवश्यकता अद्यापि वर्तते इति विशेषज्ञाः मन्यन्ते ।
अग्नाशयः किम् ?
अग्नाशयः एकः लघुग्रन्थिः अस्ति यः एन्जाइम्स्, हार्मोन इति च उत्पादयति ये पाचनकार्य्ये सहायकाः भवन्ति । अग्नाशयस्य कर्करोगस्य लक्षणं प्रायः प्रारम्भिकपदे न दृश्यते इति वैद्याः वदन्ति । यथा यथा कर्करोगः प्रगच्छति तथा तथा विविधानि लक्षणानि दृश्यन्ते । एतादृशाः रोगिणः आईजीएमसी इत्यस्य शल्यक्रियाविभागे आगत्य चिकित्सां कर्तुं शक्नुवन्ति इति डॉ. विपिनकुमारशर्मा अवदत्।
रोगस्य लक्षणम्
अग्नाशयकर्क्कटरोगिणां प्रायः पीतरोगस्य समस्या भवति इति डॉ. शर्मा अवदत्। वाक् नेत्रे च पीतं भवति। एतदतिरिक्तं उदरवेदना, वजनक्षयः, वुभूक्षाक्षयः, वमनं, श्रान्तता, पाचनसमस्याः च भवन्ति । रोगिणां रक्ते शर्करायाः स्तरः वर्धते । मधुमेहस्य कारणं च भवति ।