HPRCA Hamirpur : हिमाचलप्रदेश- राज्यचयन- आयोगे नववर्षे जीविकाया: अवसरः, ८० पदकूटसंख्यायां १४२३ पदानि पूरयिष्यन्ते।
हिमसंस्कृतवार्ता:- डॉ पद्मनाभ:, हमीरपुरम्।
हिमाचलप्रदेश- राज्यचयन- आयोगे द्विवर्षाभ्यन्तरं सर्वकारीयनियुक्तीनां प्रतीक्षां कुर्वन्तः युनः नववर्षे नवजीविकां प्रति अपेक्षां कुर्वन्ति। पत्रकपरिशीलनसम्बन्धिन्या समस्यया अधिकं परीक्षाणां परिणामाः प्रकाशिताः। पञ्च एव परीक्षाः अवशिष्टाः, यासु सर्वकारीयस्तरे निर्णयोऽपि प्रतीक्षितः। इदानीं नूतनचयनपरीक्षाः एकसोपानप्रणाल्याः माध्यमेन शीघ्रारम्भं प्रति अपेक्षाः सन्ति। अस्मिन्काले ८० पदकूटसंख्यानाम् अन्तर्गतं १४२३ पदानां चयनप्रक्रिया अपि नववर्षे आरम्भेण भविष्यति। द्वि वर्षाभ्यन्तरं प्रतीक्षां कुर्वन्तः प्रदेशे सहस्रयुनां कृते एषा महती वार्ता भविष्यति। पूर्ववर्षे विघटितं कर्मचारीचयनायोगस्य प्रकरणे विज्ञापितनियुक्तीनां पात्रैः अभ्यर्थिभिः द्विवर्षीयम् अधिकतमं आयुसीमां प्रति शिथिलता प्रदास्यते, इत्यस्य कृते प्रदेशसर्वकारेण योजना कृता। राज्यचयन- आयोगेन प्रदेशसर्वकारं प्रति प्रस्ताव: प्रेषित: यः नववर्षे निर्णयं प्रति गमिष्यति। ८० पदकूटसंख्यानाम् अन्तर्गतं प्रदेशस्य विविधविभागेषु १४२३ पदानां पूर्तिः करिष्यते। तस्मिन् जेबीटी, जेओए, आईटी च विविधपदानि अन्तर्भूतानि। सर्वाधिकं ४०० पदानि जेबीटी कृते भविष्यन्ति। चयनप्रक्रिया आरम्भेण युनां जीविकाया: प्रतीक्षा समाप्ता भविष्यति। हिमाचलप्रदेश- राज्यचयन- आयोगस्य सचिवः विक्रममहाजनः उक्तवान् यत् पूर्वं प्रारब्धाः चयनप्रक्रियाः प्रायः समाप्ताः। सर्वकारतः निर्देशं प्राप्य ८० पदकूटसंख्यानाम् अन्तर्गतं चयनप्रक्रिया शीघ्रमेवारभ्यते।
कम्प्यूटराधारितपरीक्षायाः कृते संस्था शीघ्रं निश्चिता भविष्यति।
कम्प्यूटराधारितपरीक्षायाः (CBT) कृते शीघ्रं संस्थां निश्चितं कर्तुम् अपेक्षते। ओटीए पदानां पूर्तिं कृते पाइलटप्रक्रिया- आयोगेन एडसिल-संस्थाया: माध्यमेन परीक्षाः आयोजिता आसन्। किन्तु इदानीं प्रदेशसर्वकारा न्यूनअर्थसंकल्प (बजट) व्ययेन परीक्षायाः आयोजनं कृते अन्यां संस्थां चिन्वन्ति। प्रथमप्रक्रिया-आयोजनस्य निमित्तं एडसिलसंस्थाये ३५ लक्षं रूप्यकाणि च प्रदत्तानि आसन्। अस्मिन्प्रकरणे सर्वकारीयाः दीर्घं कालं यावत् प्रतीक्षा कृतम्। इदानीं नववर्षे स्थायीनिर्व्यवस्था प्राप्तिं प्रति अपेक्षा अस्ति।