Chief Justice of HP : रविवासरे भविष्यति हिमाचलप्रदेशस्य नवनियुक्तस्य मुख्यन्यायाधीशस्य शपथग्रहणम्
हिमसंस्कृतवार्ता: – शिमला। हिमाचलस्य उच्चन्यायालयस्य नवीनस्य मुख्यन्यायाधीशस्य शपथग्रहणसमारोहः राजभवने २९ दिसम्बरदिनाङ्के रविवासरे भविष्यति। पंजाब-हरियाणा-उच्चन्यायालयस्य न्यायाधीशः जी.एस.सन्धवालिया हिमाचल-उच्चन्यायालयस्य मुख्यन्यायाधीशः नियुक्तः अस्ति। राजभवनः शपथग्रहणस्य सज्जतां आरब्धवान् अस्ति।
न्यायमूर्ति राजीव शकदरस्य हिमाचल- उच्चन्यायालयात् सेवानिवृत्तेः अनन्तरं न्यायाधीशः तरलोकसिंहचौहानः सम्प्रति कार्यवाहकमुख्यन्यायाधीशस्य प्रभारं धारयति। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अपि नूतनस्य मुख्यन्यायाधीशस्य शपथग्रहणाय दिल्लीतः पूर्वं प्रत्यागन्तुं शक्नोति। सः कर्णाटकात् दिल्लीं प्राप्तवान्, देहल्यां मुख्यमन्त्री केन्द्रसर्वकारमन्त्रालयैः सह मिलति। तदनन्तरं सः शिमलाम् आगमिष्यति।