मनमोहनसिंहाय-श्रद्धांजलिः-डॉ. मनमोहनसिंहस्य निधने राष्ट्रशोकसन्तप्तम् अस्ति- प्रधानमन्त्री
हिमसंस्कृतवार्ता:- राष्ट्रपति द्रौपदी मुर्मुः उपराष्ट्रपितः जगदीप-धनखडः अन्ये च नेतारः पूर्वप्रधानमन्त्रिणः डॉ, मनमोहनसिंहस्य निधने शोकं प्रकटितवन्तः। निजसन्देशे राष्ट्रपतिः द्रौपदीमुर्मुः उक्तवती यत् डॉ. सिंहः तेषु असाधारण राजनेतृषु अन्यतमः आसीत् यैः शिक्षाजगति प्रशासनजगति च समानरूपेण सहजतया च कार्यं कृतम्। उपराष्ट्रपतिः जगदीपधनखडः अवोचत् यत् पूर्वप्रधानमन्त्री डॉ. मनमोहनसिंहः प्रतिष्ठितः आर्थशास्त्री आसीत् तेन भारतस्य आर्थिकं परिदृश्यं परिवर्तितम्। राष्ट्रपतिः, उपराष्ट्रपतिः, प्रधानमन्त्री च राजधान्यां नवदिल्ल्यां डॉ मनमोहनसिंहस्य आवासे तस्मै श्रद्धांजलिं समर्पितवन्तः। निजसन्देशे प्रधानमन्त्री नरेन्द्रमोदी अवोचत् यत् पूर्वप्रधानमन्त्रिणः डॉ. मनमोहनसिंहस्य निधने राष्ट्रशोकसन्तप्तम् अस्ति। प्रधानमन्त्रिणा उक्तं यत् तदीयं जीवनं भाविसन्ततये अनुकरणीयम् अस्ति। केन्द्रीयमन्त्री अमितशाहः, जे.पी. नड्डा, राजनाथसिंहः, ज्योतिरादित्य सिंधिया, कांग्रेसदलस्य पूर्वाध्यक्षा सोनियागांधी अन्ये च नेतारः पूर्वप्रधानमन्त्रिणः डॉ. मनमोहन सिंहस्य गृहमुपेत्य तस्मै श्रद्धाञ्जलि समर्पितवन्तः । पूर्वराष्ट्रपतिः रामनाथ कोविन्दः निजशोक सन्देशे अवोचत् यत् डॉ मनमाहेन सिंहः विनम्रतायाः उदाहरणं भारतीयार्थव्यवस्थायाः वास्तुकारः आसीत्। केन्द्रीयमन्त्रिणा शिवराजसिंहेन उक्तं ययत् डॉ. मनमोहनसिंहस्य निधनेन आर्थिक परिष्काराणाम् एकस्य युगस्य अन्तः अभवत्। कांग्रेस दलाध्यक्षः मल्लिकार्जुन खडगे निजसन्देशे अवोचत् यत् भारतस्य दूरदर्शी राजनेता अर्थशास्त्री च दिवं यातः। कांग्रेस नेता राहुलगांधी अवोचत् यत् डॉ. सिंहेन निष्ठया बुद्धिमत्तया च भारतस्य नेतृत्वं कृतम्। वयं तस्मै विनम्र श्रद्धाञ्जलिं समर्पयामः। कांग्रेस सूत्रानुसारेण पूर्वप्रधानमन्त्रिणः डॉ. मनमोहनसिंहस्य पार्थिववपुः शनिवासरे प्रातः कांग्रेस मुख्यालये आनेष्यते। यत्र जनाः तस्मै श्रद्धाञ्जलिम् अर्पयिष्यन्ति। तस्य अन्त्येष्टिसंस्कारोऽपि शनिवासरेभविष्यति।
मनमोहनसिंहाय-श्रद्धांजलिः-डॉ. मनमोहनसिंहस्य निधने राष्ट्रशोकसन्तप्तम् अस्ति- प्रधानमन्त्री
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment