Dussehra Festival: मुख्यमन्त्री जाखौ रावणदहनं कृतवान्
हिमसंस्कृतवार्ता: – शिमला।
मुख्यमंत्री सुखविन्द्रसिंहसुक्खु: दशहरामहोत्सवस्य शुभावसरे श्रीहनुमानमंदिर जाखु इत्यत्र पूजा-अर्चनां कृत्वा राज्यस्य सुखसमृद्धे: कामनाम् अकरोत्। अस्मिन् अवसरे मुख्यमन्त्री रावणस्य, मेघनाथस्य, कुम्भकरणस्य च प्रतिरूपाणाम् अपि दहनं कृतवान्। मुख्यमंत्री उक्तवान् यत् दशहरामहोत्सव: असत्यस्योपरि सत्यस्य विजयस्य प्रतीक: अस्ति। अतः अस्माभि: सत्यमार्गस्य अनुसरणं कर्तव्यम्। अस्मिन्नवसरे विधायक: हरीश जनार्था, महापौर: सुरेन्द्र: चौहान:, स्थानीयपार्षद: अतुलगौतम:, नगरनिगमस्य अन्ये पार्षदा:, विभिन्नसङ्घटनानां प्रतिनिधय:, उपायुक्त अनुपम कश्यप:, पुलिसाधीक्षक: संजीव गांधी आदय: उपस्थिता अभवन्।
Dussehra Festival: मुख्यमन्त्री जाखौ रावणदहनं कृतवान्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
