Pandoh Baglamukhi Ropeway: रज्जुमार्गस्य परीक्षणं सफलम्, उद्घाटनम् स्थगितम्
हिमसंस्कृतवार्ता:- लघ्वीकाशी मण्डी।
राष्ट्रिय आपदाप्रतिक्रियाबलेन गुरुवासरे पण्डोहस्थस्य बगलामुखी-रज्जुमार्गस्य परीक्षणं कृतम्। कथ्यते यत् एतद् परीक्षणं सफलम् अभवत्, अधुना बगलामुखी रज्जुमार्गः सम्पूर्णतया संचालनाय सज्जः अस्ति। उपमुख्यमन्त्री मुकेश अग्रिहोत्री स्वस्य फेसबुक-अकाउण्टमध्ये बगलामुखी- रोपवे- परीक्षणस्य विषये उल्लेखं कृत्वा तत्रत्यानां जनानाम् अभिनन्दनं कृतवान्। मुख्यमंत्रिण: सुखविंदरसिंहसुक्खो: व्यस्ततायाः कारणात् अक्टोबर् ५ दिनाङ्के तस्य उद्घाटनं न भविष्यति। इत: पूर्वं हिमाचलपथपरिवहननिगमस्य एचआरटीसी इत्यस्य स्थापनादिवसस्य उत्सवः अपि स्थगितः अस्ति, यः अक्तूबर १२ दिनाङ्के भविष्यति। सम्प्रति मण्डीजनपदस्य पण्डोहतः बगलामुखीमन्दिरपर्यन्तं निर्मितः रज्जुमार्गः पूर्णतया सज्जः अस्ति, तदर्थं कर्मचारिभ्यः अपि प्रशिक्षणं दत्तम् अस्ति।
नाबार्ड-संस्थायाः साहाय्येन राज्यसर्वकारेण प्रथमवारं एतादृशः रज्जुमार्गः निर्मितः। निर्मातृसंस्था एव तत् चालयिष्यति, निजीसहभागितायाः च अग्रे नेष्यति। रज्जूमार्गनिगमस्य (रोपवे कार्पोरेशन) प्रबन्धनिदेशक: (एमडी) अजयशर्मा इत्यनेन उक्तं यत् सम्प्रति अस्य उद्घाटनं अक्तूबर ५ दिनाङ्के न क्रियते, यस्य कृते नूतनः समयः गृहीतः भविष्यति। अस्य रज्जुमार्गस्य निर्माणार्थं प्रायः वर्षद्वयं यावत् समयः अभवत्।
अक्तूबर ५ दिनाङ्के उद्घाटनम् आसीत्
अस्य रज्जुमार्गस्य उद्घाटनं अक्तूबरमासस्य ५ दिनाङ्के भवितव्यम् आसीत्, यस्य कृते कार्यक्रमः प्रायः निश्चितः आसीत्, परन्तु पूर्वं मुख्यमंत्री अस्वस्थः आसीत्, स्वस्थः भूत्वा सः हरियाणा-विधानसभानिर्वाचनाय गतः अस्ति एतादृशे सति अक्तूबर ५ दिनाङ्कस्य कार्यक्रमः स्थगितः अस्ति, मुख्यमन्त्रिणः नूतनसमयःयाच्यते।