Kinnar Kailash Yatra : किन्नरकैलाश-यात्रायै 25 जुलाईत: पंजीकरणम्
हिमसंस्कृतवार्ता: – रिकांगपिओ।
किन्नौर प्रशासनेन भगवतः शिवस्य शिशिरनिवासस्थानस्य किन्नरकैलाशस्य यात्रायाः कृते २५ जुलाई २०२४ दिनाङ्कात् प्रातः ११ वादनतः पञ्जीकरणतिथिः आरभ्यते इति घोषणा प्रसारिता अस्ति। पञ्जीकरणस्य एषा सुविधा प्रशासनेन ऑनलाइन तथा आफलाइनरूपेण प्रदत्ता भविष्यति। जिल्लापर्यटन- अधिकारी किन्नौरम् एवं एसडीएम कल्पा डॉ. मेजर शशांक गुप्ता अवदत् यत् किन्नौरजनपदस्य तांगलिंगमार्गेण किन्नरकैलाशयात्रा आयोज्यते। १ अगस्ततः २६ अगस्तपर्यन्तं आयोज्य किन्नरकैलाशयात्रायाः ऑनलाइन-ऑफलाइन-पञ्जीकरणं २५ जुलाई दिनाङ्के प्रातः ११ वादनतः आरभ्यते। सः अवदत् यत् ऑनलाइन पञ्जीकरणार्थं http://hpkinnaur.nic.in इति सञ्चिकां गत्वा पञ्जीकरणं कर्तव्यं भविष्यति, यदा तु यात्रादिने एव ताङ्गलिंग् ग्रामं गत्वा यात्रिकेण आफलाइन पञ्जीकरणं कर्तुं शक्यते। यात्राकाले एकदिने २०० ऑनलाइन, १५० ऑफलाइन पञ्जीकरणं करिष्यते इति अपि सः अवदत्। एकवारादधिकं पञ्जीकरणं कर्तुं न शक्यते। यात्रायाः समये यात्रिकाणां कृते चिकित्सासुष्ठुताप्रमाणपत्रं दर्शयितुं अनिवार्यं भविष्यति तथा च चिकित्सासुष्ठुताप्रपत्रं २०२४ तमस्य वर्षस्य जुलाईमासस्य २५ दिनाङ्कात् अस्मिन् जालपुटे उपलभ्यते।
Kinnar Kailash Yatra : किन्नरकैलाश-यात्रायै 25 जुलाईत: पंजीकरणम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
