Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- वित्तमन्त्री निर्मला सीतारमण इत्येषा संसदि एनडीएप्रशासनस्य तृतीयकार्यकालस्य प्रथमं केन्द्रीयवित्तसंकल्पनापत्रकं प्रस्तुतवती।
- प्रख्यापिते वित्तसंकल्पनापत्रके द्विलक्षकोटिरूप्यकाणां परिव्ययेन सह पञ्च वर्षाणाम् अवधौ चतुः कोट्यधिकेभ्यः युवभ्यः कौशलवृत्यवसरौ संवर्धयितुं पञ्चयोजनानाम् उपक्रमाणाञ्च प्रधानमन्त्रिणः संग्रहणस्य घोषणा जाता ।
- प्रशासनेन आयकरमानेषु संशोधनं विहितम्, वेतनभोग्यकर्मचारिणां कृते मानकव्यवकलनं पंचाशत् सहस्ररूप्यकात् पञ्चसप्तति-सहस्ररूप्यकाणि यावत् वर्धितम्।
- वैदेशिकमूलधनम् आक्रष्टुं वैदेशिकोद्यमेषु निगमकरस्य मूल्यम् चत्वारिंशत् प्रतिशतात् पञ्चत्रिंशत् प्रतिशतं यावत् न्यूनीकृतम्।
- महिलानेतृत्वविकासयोजनानां कृते त्रिलक्षकोटिरूप्यकाणाम् आबण्टनमपि जातम्।
हिमाचलवार्ता:
- नेताप्रतिपक्ष एवं पूर्वमुख्यमन्त्री जयरामठाकुरः अवदत् यत् केन्द्रस्य मोदीसर्वकारस्य तृतीयकार्यकालस्य प्रथमबजटं विकसितभारतस्य लक्ष्याणां साकारीकरणस्य दिशि आधारभूतम् अस्ति। अस्मिन् बजटे सर्वकारेण सर्वेषां वर्गानां सशक्तिकरणाय प्रभावी पदानि स्वीकृतानि सन्ति। निर्धनानाम्, युनां, महिलानां, करदातृॄणां च हितं मनसि कृत्वा आश्रयं दत्तम् अस्ति। एतत् बजटं देशस्य युनां मनोबलं वर्धयिष्यति।
- किन्नौर प्रशासनेन भगवतः शिवस्य शिशिरनिवासस्थानस्य किन्नरकैलाशस्य यात्रायाः कृते २५ जुलै २०२४ दिनाङ्कात् प्रातः ११ वादनतः पञ्जीकरणतिथिः आरभ्यते इति घोषणा प्रसारिता अस्ति। ऑनलाइन-ऑफलाइन-पञ्जीकरणं २५ जुलाईदिनाङ्के प्रातः ११ वादनतः आरभ्यते। ऑनलाइन पञ्जीकरणार्थं http://hpkinnaur.nic.in इत्यत्र पञ्जीकरणं कर्तव्यं भविष्यति, यदा तु आफलाइन पञ्जीकरणं यात्रादिने एव ताङ्गलिंग ग्रामं गत्वा कर्तुं शक्यते।
- हिमाचलप्रदेशे त्रिवर्षाणि यावत् एकस्मिन् स्थाने कार्यरतानाम् अधिकारिणां स्थानान्तरणं भविष्यति। मुख्यमन्त्रीकार्यालयेन आबकारी, जलशक्ति:, लोकनिर्माणम्, स्वास्थ्यम्, कृषि:, उद्यानिकीसहितं अनेकविभागानाम् अधिकारिभ्यः, प्रशासनिकसचिवेभ्यः, विभागप्रमुखेभ्यः च एतादृशानां अधिकारिणां सूची आहूता अस्ति। राज्ये एतादृशानां अधिकारिणां कार्यप्रदर्शनस्य अपि मूल्याङ्कनं भविष्यति।
- बीबीएन-उद्यमिनः बजटस्य प्रशंसाम् अकुर्वन्। उद्योगसङ्घः कथयति यत् बजटे नूतनभारतस्य स्पष्टदृष्टिः अस्ति। पर्यावरणसंरक्षणस्य सौरशक्तिप्रवर्धनस्य च प्रावधानम् अस्ति । केन्द्रीयबजटं अभियाचनां वर्धयति, भारतं स्वनिर्भरं कर्तुं साहाय्यं करिष्यति।