गुजरातराज्यसंस्कृतविभागस्योपाध्यक्षरूपेण डॉ.पङ्कज त्रिवेदी नियुक्तः
वार्ताहर: – जगदीशडाभी (राष्ट्रीय संस्कृत प्रचारक)
गांधीनगरम् (गुजरातम्) गुजरातराज्यसर्वकारेण स्थापितस्य संस्कृत विभागस्य उपाध्यक्षरूपेण श्रीमान् पंकज त्रिवेदि वर्यः नियुक्तः। एते साम्प्रतं विभिन्नान् दायित्त्वान् वहन्तः वर्तन्ते। संस्कृतभारत्यां सौराष्ट्रप्रान्तमन्त्रि पदम् अलङ्कुर्वाणा: विद्यन्ते। महिला महाविद्यालयस्य प्राचार्यरूपेण तिष्ठति। श्रीसोमनाथ विश्वविद्यालये शैक्षणिकविभागे सदस्याः सन्ति । गुजरातसाहित्य अकादमीमध्ये अपि कार्यं कृतवन्तः। विभिन्नेषु अन्ताराष्ट्रिय-राष्ट्रियगोष्ठीषु भागम् अवहन् l इमे संस्कृतजगति कृतभूरिपरिश्रमाः वर्तन्ते। अस्य विभागस्य अध्यक्षरूपेण डॉ हिमाञ्जय पालिवाल महोदयाः सन्ति। एतेषां दिशानिर्देशने संस्कृतकार्यम् अभिवर्धताम् अविरतम् इति आशासे।
उत्तमम्