सिख फॉर जस्टिस इत्यस्योपरि प्रतिबन्धः पञ्चवर्षपर्यन्तं विस्तारितः
अवैधक्रियाकलापः (निवारण) अधिनियमः (यूएपीए) न्यायाधिकरणेन खालिस्तानी आतङ्कवादी गुरपतवंतसिंह पन्नू इत्यस्य नेतृत्वे ‘सिख्स् फॉर जस्टिस’ (एसएफजे) इति संस्थायाः उपरि केन्द्रसर्वकारेण पञ्चवर्षीयप्रतिबन्धस्य समर्थनं कृतम्। २०१९ तः प्रतिबन्धितायाः अस्याः संस्थायाः प्रतिबन्धः आगामिपञ्चवर्षेभ्यः विस्तारितः अस्ति । दिल्ली उच्चन्यायालयस्य न्यायाधीशः यूएपीए न्यायाधिकरणस्य अध्यक्षः न्यायाधीशः अनूपकुमारमेण्डिरट्टा इत्यनेन उक्तं यत् केन्द्रसर्वकारेण प्रस्तुतैः प्रमाणैः स्पष्टं भवति यत् एसएफजे खालिस्तानी आतङ्कवादीसङ्गठनेन बब्बर खालसा इन्टरनेशनल् तथा खालिस्तान टाइगर फोर्स इत्यनेन सह सम्बद्धः अस्ति। एतदतिरिक्तं पाकिस्तानस्य अन्तरसेवागुप्तचरसंस्थायाः (ISI) सहकारेण एषा संस्था पञ्जाबप्रदेशे आतङ्कवादस्य पुनरुत्थानस्य प्रयासं कुर्वती अस्ति।