प्रधानमन्त्रिणा ग्रामीणभारतस्य सशक्तीकरणाय प्रशासनस्य दूरदृष्टौ बलं प्रदत्तम्
हिमसंस्कृतवार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना ग्रामीणविकासस्य अवसरस्य च जीवन्तकेन्द्रेषु परिवर्त्य ग्रामीणभारतस्य सशक्तीकरणाय प्रशासनस्य दूरदृष्टौ बलं प्रदत्तम्। प्रधानमन्त्रिणा कथितं यत् चतुर्दशाधिक-द्विसहस्रतम-वर्षाद् आरभ्य प्रशासनं निरन्तरं ग्रामीणभारतस्य सेवां कुर्वन् अस्ति, ग्रामवासिनां कृते गौरवपूर्ण जीवनं प्रदातुं प्राधान्यम् अददात् । एतद् वक्तव्यं प्रधानमन्त्री नवदिल्ल्याः भारतमण्डपे जनवरीमासस्य चतुर्दिनाङ्कादारभ्य नवदिनाङ्क-पर्यन्तम् आयोजितस्य ग्रामीणभारत-महोत्सवस्य उद्घाटनानन्तरं जनसमूहं सम्बोधयन् प्रदत्तवान्। अस्य महोत्सवस्य विषयः ‘सप्तचत्वारिंशदधिक-द्विसहस्रतमवर्षाय विकसितभारताय स्थितिस्थापक-ग्रामीणभारतस्य निर्माणम्’। प्रधानमन्त्री अवदत् यत्, तस्य प्रशासनस्य प्रयोजनानि, नीतयः, निर्णयाः च ग्रामीणभारतं नवशक्त्या पूरयन्ति। प्रधानमन्त्रिणा उद्घोषितं यत् केन्द्रीयमन्त्रिमण्डलेन ‘प्रधानमन्त्री-फसल्-बीमा-योजना’ एकवर्षं यावत् अनुवर्तिता, सहैव असौ संसूचितवान् यत् ‘प्रधानमन्त्री-किसान्-सम्मान्-निधिः’ ग्रामीणसमाजान् स्वावलम्बीकरोति। सः अवदत् यत्, अद्यावधि अस्याः योजनायाः अन्तर्गतं कृषकाणां कृते त्रिलक्ष-कोटिरूप्यकाणां आर्थिकसाहाय्यं प्रदत्तम्। श्रीमोदिना उक्तं यत् स्वच्छभारताभियानम्, प्रधानमन्त्री-आवास- योजना, जलजीवन-अभियानम् त्यिादीनि समेत्य प्रशासनस्य प्रयत्नाः ग्रामीणक्षेत्राणां लाभाय विकासाय च उद्दिष्टानि सन्ति। सः अवोचत् यत् स्वच्छं पेयजलं लक्षेषु ग्रामेषु प्रत्येकगृहेषु प्राप्यते। अद्यत्वे पञ्चदशांशोत्तर-एकलक्षाधिकैः आयुष्मान्-आरोग्य-मन्दिरैः जनाः उत्तम-स्वास्थ्य-सेवाः प्राप्ताः सन्ति। प्रधानमन्त्री उक्तवान् यत् अस्य वर्षस्य आरम्भे, ग्रामीणभारत-महोत्सवस्य अयं भव्यः कार्यक्रमः भारतस्य विकासयात्रां निर्दिशति। सः एतदपि कथितवान् यत् एतत् देशस्य नूतनं परिचयं कल्पयति। सः अस्य आयोजनस्य कृते नाबार्ड इत्यस्मै अथ अन्यसहकर्मिभ्यः अपि शुभकामनां प्रदत्तवान्। अस्मिन् अवसरे, प्रधानमन्त्रिणा महोत्सवे शिल्पकारैः सह संवादः कृतः। अस्य महोत्सवस्य उद्देश्यं ग्रामीणसंरचनायाः वर्धनम्, स्वावलम्बी-अर्थव्यवस्थायाः निर्माणम्, ग्रामीणसमुदायेषु नवान्वेषणस्य पोषणं च अस्ति। अस्मिन् कार्यक्रमे केन्द्रीय-वित्त-मन्त्री निर्मला सीतारामन्, राज्य-वित्त-मन्त्री पङ्कज चौधरी च उपस्थितौ आस्ताम्।
प्रधानमन्त्रिणा ग्रामीणभारतस्य सशक्तीकरणाय प्रशासनस्य दूरदृष्टौ बलं प्रदत्तम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment