कल्कि २ इत्यस्मिन् चलच्चित्रे महेश बाबू अभिनयं करिष्यति
वार्ताहर: – जगदीशडाभी (मुम्बई)
प्राप्तवार्तानुसारं कल्कि २८९८ ई. अस्मिन् वर्षे बृहत्तमेषु चलच्चित्रेषु अन्यतमम् अस्ति । नाग अश्विन इत्यनेन निर्देशितं प्रभास अभिनीतं एतत् चलच्चित्रं ब्लॉकबस्टरम् आसीत् । अधुना तस्य उत्तरकथायाः चित्रोतलनम् अतीव शीघ्रमेव आरभ्यते। इदानीं महेशबाबूः कल्कि २ इत्यस्मिन् चलच्चित्रे प्रविष्टः इति वार्ता आगच्छति। महेशबाबूः चलच्चित्रे श्रीकृष्णस्य भूमिकायां दृश्यते । अद्यैव नाग अश्विनः उक्तवान् यत् अहं कल्कि ब्रह्माण्डे भगवन् श्रीकृष्णस्य मुखं प्रकाशयितुम् न इच्छामि। परन्तु यदि अत्र पूर्णदीर्घभूमिका अस्ति तर्हि मम मते महेशबाबूः तदर्थं सर्वथा योग्यः भविष्यति। परन्तु अश्विनः अग्रे अवदत् यत् महेशबाबूः अद्यापि अस्य भूमिकायाः कृते न नियुक्तः। इति कदाचित् कल्कि २ इत्यस्मिन् चलच्चित्रे महेश बाबू अभिनयं करिष्यति ।