मुख्यमंत्री सुक्खु:, प्रतिभासिंह, उपमुख्यमंत्री मुकेश: अग्निहोत्री च दिल्लीं प्रति प्रस्थिताः, बेलगामे काङ्ग्रेससभायां भागं ग्रहीष्यन्ति
हिमसंस्कृतवार्ता: – शिमला।
कर्नाटकस्य बेलगांवे आयोज्य काङ्ग्रेसकार्यसमितेः सभायां भागं ग्रहीतुं मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः बुधवासरे दिल्लीं प्रति प्रस्थितवान्। राज्यकाङ्ग्रेसस्य अध्यक्षा प्रतिभासिंह उपमुख्यमन्त्री मुकेश: अग्निहोत्री च सायंकाले दिल्लीं गतवन्तौ। ते प्रातःकाले कर्णाटकं प्रति प्रस्थास्यन्ति। २६ दिसम्बर् दिनाङ्के जायमाना (CWC) सभा अतीव महत्त्वपूर्णा इति मन्यते। दलस्य नूतना दिशा सभायां निर्णयः करणीया अस्ति। एतेन सह बेलगामे दिसम्बर-मासस्य २७ दिनाङ्के सभा भविष्यति । अस्य अध्यक्षता काङ्ग्रेसस्य राष्ट्रियाध्यक्षः मल्लिकार्जुनखड़गे करिष्यति।
अस्यां सभायां मुख्यमन्त्री, राज्याध्यक्षा, उपमुख्यमन्त्री च भागं ग्रहीष्यन्ति। मुख्यमन्त्री द्विदिवसीययात्रायां भविष्यति। सः २८ दिसम्बरदिनाङ्के केन्द्रीयमन्त्रिभिः सह मिलति। सः केन्द्रीयमन्त्रिभिः सह हिमाचलसम्बद्धान् विषयान् उत्थापयिष्यति। जीएसटी राज्यस्य क्षतिपूर्तिं न्यूनीकर्तुं, राजस्वहानि-अनुदानं, ऋणसीमा च केन्द्रसर्वकारेण सह उत्थापयिष्यति।
सीडब्ल्यूसी सभायां हिमाचलकाङ्ग्रेस कार्यसमितौ चर्चा शक्यते
हिमाचलकाङ्ग्रेसयुवानिर्वाचनपरिणामस्य घोषणां कृत्वा अधुना राज्ये हिमाचलप्रदेशकार्यकारिण्याः निर्माणं कर्तव्यम् अस्ति। विघटितस्य काङ्ग्रेसकार्यकारिण्या: राज्यात् मण्डलपर्यन्तं खण्डस्तरं च पुनर्सङ्घटनं आगामि जनवरीमासे सम्पन्नं भविष्यति। एतादृशी परिस्थितौ काङ्ग्रेसप्रदेशाध्यक्षा प्रतिभासिंह दिल्लीनगरे दलस्य शीर्षनेतृत्वेन सह अस्य विषयस्य चर्चां कर्तुं शक्नोति इति विश्वासः अस्ति । हिमाचलयुवाकाङ्ग्रेसे कार्यकारी- अध्यक्षस्य सूत्रं कार्यान्वितुं शक्यते।