१९ वर्षीया राशा थडानी शीघ्रमेव बॉलीवुडक्षेत्रे पदार्पणं करिष्यति
वार्ताहर: – जगदीशडाभी (मुम्बई)
मुम्बई । बॉलीवुड-नायिकाया: रवीना टण्डन इत्यस्याः पुत्री राशा थडानी बॉलीवुड-मध्ये पदार्पणं कर्तुं गच्छति। निर्देशकस्य अभिषेककपूरस्य ‘आजाद’ इति चलच्चित्रेण राशा थडानी बॉलीवुडक्षेत्रे पदार्पणं कुर्वती अस्ति । अस्मिन् चलच्चित्रे अजय देवगनः अपि मुख्यभूमिकायां दृश्यते । अजयस्य भ्राता अमनदेवगनः अपि अस्मिन् चलच्चित्रेण बॉलीवुडक्षेत्रे पदार्पणं कर्तुं गच्छति । इदं चलच्चित्रं जनवरीमासस्य १७-दिनाङ्के प्रदर्शितं भविष्यति। भवद्भ्यः कथयामः यत् रवीना टण्डन इत्यस्या: पुत्री राशा थडानी केवलं १९ वर्षीया अस्ति। राशा १९ वर्षे बॉलीवुडक्षेत्रे पदार्पणं करोति । राशायाः पदार्पणस्य वार्ता बहुकालात् आगच्छति स्म अधुना सा ‘आजाद’ इति चलच्चित्रेण पदार्पणं कर्तुं गच्छति।