२०३५ तमवर्षपर्यन्तं स्वकीयं ‘भारत-अन्तरिक्षस्थानकं’ भविष्यति – विज्ञान-प्रौद्योगिक्याः राज्यमन्त्री डॉ. जितेन्द्रसिंहः
हिमसंस्कृतवार्ताः। विज्ञानप्रौद्योगिक्याः राज्यमन्त्री डॉ. जितेन्द्रसिंहः अवदत् यत् २०३५ तमे वर्षे भारतस्य स्वकीयं अन्तरिक्षस्थानकं ‘भारत-अन्तरिक्षस्थानकं’ भविष्यति, २०४० तमे वर्षे चन्द्रे एकः भारतीयः अवतरति। नवीदिल्लीनगरे ‘सर्वविज्ञानमन्त्रालयानाम् उपलब्धयः’ इति विषये पत्रकारसम्मेलनं सम्बोधयन् डॉ. अवदत् यत् भारतात् एतावता ४३२ विदेशीयाः उपग्रहाः प्रक्षेपिताः, येषु प्रायः ९० प्रतिशतं विगतदशवर्षेषु प्रक्षेपणं कृतम् अस्ति। विज्ञानं प्रति बहुविषयकदृष्टिकोणस्य सर्वकारस्य दृष्टिः विषये अपि मन्त्री उक्तवान्। सः अवदत् यत् भारतेन जैवप्रौद्योगिक्याः, जैव-अर्थव्यवस्थायाः, भू-स्थानिककार्यक्रमेषु, रक्षायां, कृषिक्षेत्रे च विविधक्षमतासु विज्ञानस्य अनुप्रयोगेन प्रगतिः कृता अस्ति।
२०३५ तमवर्षपर्यन्तं स्वकीयं ‘भारत-अन्तरिक्षस्थानकं’ भविष्यति – विज्ञान-प्रौद्योगिक्याः राज्यमन्त्री डॉ. जितेन्द्रसिंहः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment