१४ दिनाङ्के राष्ट्रीयलोकन्यायालय: ६२ सहस्रप्रकरणानि प्राप्तानि
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशस्य उच्चन्यायालयस्य कार्यवाहकस्य मुख्यन्यायाधीशस्य एवं हिमाचलप्रदेश- राज्यविधिकसेवा- प्राधिकरणस्य कार्यवाहक- अध्यक्षस्य न्यायाधीशस्य तरलोकसिंहचौहानस्य मार्गदर्शने हिमाचलप्रदेशस्य सर्वेषु न्यायालयेषु १४ दिनाङ्के राष्ट्रीयलोकन्यायालया: आयोज्यन्ते।
यातायातदण्डाधिकारिण: न्यायालयेषु एमवी- चालानप्रकरणेषु ई. पे. (ई-कोर्ट डिजिटल पेमेंट) मार्गेण चक्रवृद्धिब्याजशुल्कस्य प्रदानस्य ऑनलाइन सुविधा अपि प्रदत्ता। राष्ट्रीयलोकन्यायालयस्य विषये आईईसी- (IEC)- सामग्र्या: वितरणेन स्थानीयनिकायस्य हितधारकै:, अराजकीयसङ्घटनै:, पंचायतीराजसंस्थानां प्रतिनिधिभि:, पैरा- लीगल- स्वयंसेवकै:, सार्वजनिक- परिवहनसेवादिभ्य: माध्यमेन जनजागरणं क्रियते। अधुना यावत् १४ दिसम्बर दिनाङ्के अग्रिमाय राष्ट्रियलोकन्यायालयस्य निस्तारणार्थं विभिन्नैः न्यायालयैः प्रायः ६२००० प्रकरणानि चिह्नितानि सन्ति। प्रकरणानां प्रभावी परिचयाय स्थानीय- अधिवक्तृसङ्घैः, बीमाकम्पनीभिः, वित्तकोषै:, वित्तीयसंस्थाभिः सह नियमितरूपेण सभाः क्रियन्ते। जनसामान्यं मध्ये वैधानिकीजागरूकतां प्रसारयितुं प्रशंसनीयाः सेवाः प्रदातुं मुद्रित-विद्युत्-माध्यमाः सदैव प्रमुखाः हितधारकाः भवन्ति। विधिसेवाप्राधिकरणस्य सदस्यसचिव: जिला एवं सत्र न्यायाधीश: रणजीत: सिंह: सम्बंधितजनै: आग्रहं कृतवान् यत् ते राष्ट्रीयलोक-न्यायालये सम्मिल्य स्वन्यायिकप्रकरणानां निस्तारणाय आगच्छन्तु।