MC Mandi : मण्डीजनपदस्य नगर-निगमे अनुसूचितजातिक्षेत्रेषु मार्गाः निर्मीयन्ते, दीपस्तम्भा: स्थाप्यन्ते – आयुक्त:
हिमसंस्कृतवार्ता:- डॉ पद्मनाभ:, मण्डी।
नगरनिगमे अनुसूचितजातेः क्षेत्रेषु १.१३ कोटि- रूप्यकाणां व्ययेन विकासकार्याणि क्रियन्ते। भग्नानां मार्गाणां पुनर्निर्माणम् करिष्यते, नूतनमार्गाः अपि निर्मीयन्ते। तत्र च विविधेषु स्थलेषु दीपस्तम्भा: स्थाप्यन्ते। नगर-निगमेन जातीयसंख्याया: आधारं कृत्वा क्षेत्रेषु बजटं वितरितम्। अत्यधिकं वित्तं सुहड़ाक्षेत्राय द्वाभ्याम् अंशाभ्यां १५.५६ लक्षरूप्यकाणि प्रदत्तानि। बैहनाक्षेत्राय १३.९७ लक्षं, दोहन्दीवार्डाय १२.७४ लक्षरुप्यकाणि, खलियार वार्डाय च ११.७१ लक्षरूप्यकाणि प्रदत्तानि। न्यूनतमं वित्तम् उपमहापौर- माधूरी-कपूरायै वार्ड-भगवाहनाय ९८५३२ रूप्यकाणि तथा महापौर-वीरेन्द्र-भट्टस्य वार्ड-पुरानीमण्डी इत्यस्मै २.२० लक्षं रूप्यकाणि विकासकार्याय प्रदत्तानि। वितरितेन बजटेन अनुसूचित- बस्तिषु विकासकार्येषु वेगः आगच्छति। नगरनिगमस्य आयुक्तेन एच. एस. राणा इत्यनेन उक्तम् यत् बजटं सर्वेषु वार्डेषु जनसंख्यानुसारं वितरितम्। द्वे अंशे अपि विमोचिते।
द्वादशे दिनाङ्के निगमसभायाः गोष्ठी भविष्यति
नगरनिगमस्य साधारणसभा द्वादशे दिसम्बरमासे महापौरस्य वीरेन्द्रभट्टस्य अध्यक्षतायां निगम- कार्यालये गोष्ठीकक्षे भविष्यति। आयुक्तेन एचएस राणा इत्यनेन सर्वे पार्षदाः पत्रद्वारा सूचिताः। पार्षदाः तेषां वार्डेषु सम्बद्धेषु मदेषु कार्येषु च विवरणं एकादशदिसम्बरपर्यन्तं समर्पयिष्यन्ति यथा सभायां तेषु चर्चां क्रियते।