HP NEWS : हिमाचलप्रदेशे अवैधं, गुणवत्ताहीनं, विषाक्तं च मद्यं यदि गृहीतम्, तर्हि पञ्चवर्षाणि यावत् कारावासः।
हिमसंस्कृतवार्ता: डॉ पद्मनाभ:, शिमला।
राज्यपालस्य अनुमोदनं प्राप्य विधिविभागेन हिमाचलप्रदेश- आबकारी- संशोधनविधेयकः- २०२४, विधेयकसंख्याङ्कः १६, राजपत्रे अधिसूचितः कृतः। इदानीं संशोधितविधेयकस्य अनुसारम् अवैधं, गुणवत्ताहीनं, विषाक्तं च मद्यं गृहीते पञ्चवर्षपर्यन्तं कारावासः, पञ्चलक्षरुप्यकपर्यन्तं दण्डश्च भविष्यति। जिलाधिकारीभ्यः अपराधनिवारणाय अधिकाराः प्रदत्ताः। आरोपिणः सह आदान-प्रदानं कुर्वन्तः अपि निरीक्ष्यन्ते। विधेयकस्य व्यवस्थायाम्, आबकारीविभागे सेकण्डमेन्ट- आधारेण कमाण्डोबलं नियुक्तं भविष्यति। मद्यनिर्माणं, उत्पादनम्, आयातं, निर्यातं, परिवहनं च कुर्वन्तः सर्वे अपि अस्मिन्नेव विधेयकेन अनुबद्धाः भवन्ति। मद्यनिर्माणाय प्रयुक्तं किमपि उपकरणं, सामग्री, अथवा भट्ठी च यदि गृहीता, तर्हि अपराधः त्रिवर्षादारभ्य पञ्चवर्षपर्यन्तं कारावासः, पञ्चलक्षरुप्यकपर्यन्तं दण्डश्च दास्यते।
संशोधनविधेयकेन एषः अपराधः संज्ञेयः तथा गम्भीरः अपराधः घोषितः।
आपराधिक-प्रक्रिया-संहितायाम् (सीआरपीसी) उक्तं यत् संज्ञेयापराधः सः, यत्र (वारंटं) अनुज्ञापत्रम् विना अपि बन्दीग्रहणस्य (गिरफ्तारी) जालसञ्चिका भवति। तादृशम् अपराधं प्रतिभूतिरहितं कृतम्। प्रथमतः एषु अपराधेषु कठोरः नियमः नासीत्, किन्तु इदानीं सम्पत्तिग्रहणस्य दण्डवृद्धेश्च प्रावधानंकृतम्।