हिमाचलप्रदेशस्य राज्यपालस्य यानसमूहे समाविष्टानि वाहनानि परस्परं संघातानि अभवन्।
उत्तरप्रदेशस्य लखनऊ-नगरे एका दुर्घटना अभवत्
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
मंगलवासरे हिमाचलप्रदेशस्य राज्यपालस्य यानसमूहे समाविष्टाणि वाहनानि लखनऊनगरे परस्परं संघातानि अभवन्। तस्य कर्मचारिण: दुर्घटनायां घातिताः अभवन्। शहीदमार्गे स्थितस्य लुलुमॉलस्य समीपे एव दुर्घटना अभवत्। प्रातः ८:१० वादने राज्यपालः लखनऊ-विमानस्थानकात् शहीदमार्गं प्रति प्रस्थितवान्। मार्गे सहसा तस्य यानसमूहानां कतिपयानि यानानि परस्परं संघातं कृतवन्तः। राज्यपालः एकस्मिन् कार्यक्रमे भागं ग्रहीतुम् आगच्छति स्म। विमानस्थानकात् सः मार्गेण शहीदमार्गं भूत्वा गच्छति स्म। इदानीं लुलुमॉलसमीपे यानसमूहस्य अनेकानि वाहनानि सहसा परस्परं संघातिता: अभवन्।
अस्यां दुर्घटनायां पुलिसकर्मचारिणः सहिताः केचन कर्मचारिण: घातिताः। यानसमूहस्य पुरतः स्थितेन वाहनेन सहसा रोधिनी (ब्रेक) प्रयुक्ता इति कथ्यते, यस्मात् कारणात् दुर्घटना अभवत्। दुर्घटनायां राज्यपालः सुरक्षितः अस्ति। दुर्घटनायाः कारणस्य अन्वेषणं पुलिसैः क्रियते। दुर्घटनापश्चात् सुरक्षाधिकारिणां कार्यशैल्याः विषये प्रश्नाः उत्पद्यन्ते। येषां पुलिसानां प्रमादः प्रकाशं प्राप्नोति तेषां विरुद्धं कार्यविधि: भविष्यति इति विश्वासः अस्ति। एसीपी गाजीपुरम् अपि समूहे अन्तर्भूतम् आसीत्। सः अपि क्षतिग्रस्तः अस्ति। सः अन्येन वाहनेन प्रेषितः। दुर्घटनाकारणात् शहीदमार्गे सम्मर्द: अभवत्। सम्मर्दस्य कारणेन जनाः समस्यानां सम्मुखीकरणम् अकुर्वन्।