श्रीमोदिना जयपुरे उदीयमान-राजस्थान-वैश्विक निवेश-शिखर सम्मेलनम्” इत्यस्य कृतम् उद्घाटनम्
हिमसंस्कृतवार्ताः। प्रधानमन्त्रिणा श्रीमोदिना जयपुरे उदीयमान-राजस्थान-वैश्विक निवेश-शिखर सम्मेलनम्” इत्यस्य उद्घाटनं कृतम् । त्रिदिवसीयसम्मेलनं सम्बोधयन् प्रधानमन्त्री नरेन्द्रमोदी अवोचत् यत्संशोधनं, कार्यान्वयनं, परिवर्तनं चेत्यादिभिः मन्त्रैः सह सर्वेषु क्षेत्रेषु भारतेन कृतानि विकासकार्याणि दृश्यन्ते ।आत्मनिर्भर-भारताभियानं वैश्विकम् अस्ति अस्य प्रभावोऽपि वैश्विकः वर्तते । एतदभियानमुद्दिश्य सर्वकारः समग्रदृष्टिकोणेन सह अग्रे सरति । श्रीमोदी प्रोक्तवान् यत् विश्वस्य निवेशकाः, विशेषज्ञाश्व भारतमुद्दिश्य उत्साहिताः सन्ति । श्रीमोदी प्रोक्तवान् यत् भारतस्य सफलता लोकतंत्रस्य, जनसांख्यिक्याः, अन्तर्जालीय-सूचनातन्त्रस्य कार्यान्वयनस्य च शक्तौ प्रदर्शिता भवति । अस्मिन् अवसरे प्रधानमन्त्री प्रोक्तवान् यत् देशे सुदृढलोकतन्त्रम् अस्ति । युवानः देशं विकासमार्गे अग्रे नेतुं महत्वपूर्णभूमिकां निर्वहन्ति ।
प्रधानमन्त्री नरेन्द्रमोदी प्रोक्तवान् यत् सम्पूर्ण विश्वे भारतं लोकतन्त्रस्य, भूक्षेत्रस्य, सांख्यिक्याः च शक्तेः प्रदर्शनं करोति । राजस्थाने निवेशाय आवश्यकाधारभूत-सौविध्यानाम् उल्लेखं कुर्वन् श्रीमोदी प्रोक्तवान् यत् यदि राजस्थानम् विकासस्य नवीनशिखरं स्पृशति तर्हि देशः अपि नवीनोन्नतिं प्राप्स्यति । प्राकृतिक संसाधनानां, आधुनिक सूचनातन्त्रस्य, समृद्धसंस्कृतेः, सक्षम- युव-शक्तेः च उल्लेखं कुर्वन् प्रधानमन्त्री अकथयत् यत् एताः सर्वाः विशेषताः निवेशाय राजस्थानं महत्वपूर्ण-राज्यत्वेन संस्थापयन्ति । प्रधानमन्त्री अकथयत् यत् देशे विदेशि-पर्यटकानां संख्या निरंतर समेधते सहैव क्षेत्रीयपर्यटने अपि निरन्तरं नवीनकीर्तिमत् संस्थाप्यते । प्रधानमन्त्री प्रोक्तवान् यत् सूक्ष्म-लघु-मध्यमोद्यमाः कस्यापि देशस्य अर्थव्यवस्थां सशक्तं कर्तुं महत्वपूर्ण भूमिकां निर्वहन्ति । सर्वकारः अपि स्वनीतिभिः निर्णयैः च सूक्ष्म लघु- मध्यमोद्यम-क्षेत्राणि निरन्तरं सशक्तं करोति । इतः पूर्वं कार्यक्रमं संबोधयन् मुख्यमंत्री भजनलालशर्मा प्रोक्तवान् यत् सर्वकारः आगामि पंच-वर्षेषु राज्यस्य अर्थव्यवस्थां द्विगुणीकर्तुं लक्ष्यं निर्धारितवान् । तेन आशा व्यक्तीकृता अस्ति यत् इदं शिखर सम्मेलनं विकसितभारतस्य विकसित-राजस्थानस्य संकल्पं साकारं कर्तुं महत्वपूर्णं भविष्यति । अनन्तरं प्रधानमन्त्रिणा नरेन्द्रमोदिना भारतीय-जीवनबीमानिगम इत्यस्य बीमा-शक्ति-योजनायाः शुभारम्भः हरियाणायाः पानिपतजनपदे महाराणाप्रताप-औद्यानिक-विश्वविद्यालये कृतः ।
उदीयमान-राजस्थान-वैश्विक निवेश-शिखर सम्मेलनम्” इत्यस्य प्रधानमन्त्रिणा कृतम् उद्घाटनम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment