जोधपुरे सीमासुरक्षाबलस्य भूमिकायाः प्रशंसाम् अकरोत् केन्द्रीयगृहमन्त्री श्री अमितशाहः
हिमसंस्कृतवार्ताः। केन्द्रीयगृहमन्त्री श्री अमित शाहः राजस्थानस्य जोधपुरे सीमा सुरक्षा बलस्य षष्ठीतमे स्थापनादिवसस्य उत्सवे निजसंबोधने सीमासुरक्षाबलस्य भूमिकायाः प्रशंसाम् अकरोत्। सः अवदत् यत् सीमासुरक्षायां, छद्ममुद्रां आदानं-प्रदानं निवारयितुं, वामपक्षीय- उग्रवादस्य निवारणे च सीमासुरक्षाबलस्य भूमिका प्रशंसनीया अस्ति।
श्रीशाहमहोदयः देशस्य प्रथमा रक्षापङ्क्तिमालक्ष्य षड्दशकसेवायाः कृते बीएसएफ इति सीमासुरक्षाबलस्य सैन्यबलस्य प्रशंसाम् अकरोत्। असौ अस्य सैन्यबलस्य साहसं, शौर्यं, त्यागं च प्रकाशितवान्। असौ पंचषष्ट्यधिकोनविंशशतमवर्षाद् पूर्वपश्चिमसीमयोः सुरक्षायां बीएसएफ इत्यस्य महत्त्वपूर्णां भूमिकां स्वीकृतवान् । गृहमन्त्री उक्तवान् यत् देशस्य सीमासुरक्षानीतिः बहुवर्षेभ्यः अस्पष्टा आसीत्, परञ्च प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे अस्मिन् महत्त्वपूर्णानि परिवर्तनानि जातानि। सः अवदत् यत् सीमासंरचनायाः सुदृढीकरणे सर्वकारेण ध्यानं प्रदत्तम्, यस्य कृते प्रतिवर्ष आयव्यकस्य प्रावधानं क्रियते। अर्धसैन्यबलानाम् कल्याणाय अपि सर्वकारेण अनेकाः पदक्षेपाः उत्थापिताः सन्ति । अस्मिन्नेव गृहमन्त्रिणा अमितशाहेन पथचलनस्य निरीक्षणं कृत्वा बीएसएफ-कार्मिकेभ्यः उत्तमसेवायै वीरतापुरस्काराः, सैन्य सेवा पुरस्काराः प्रदत्ताः।
जोधपुरे सीमासुरक्षाबलस्य भूमिकायाः प्रशंसाम् अकरोत् केन्द्रीयगृहमन्त्री श्री अमितशाहः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment