चारधामयात्रा- उत्तराखण्डे मुख्यमन्त्री पुष्करसिंहधामी चारधामय़ात्रायाः आधिकारिकरूपेण उद्घाटनं कृतवान्
उत्तराखण्डे चारधामयात्रा समारब्धा। यत्र भक्ताः चतुर्ष पवित्रधामसु शिशिरनिवासस्थानानां भ्रमणं करिष्यन्ति। मुख्यमन्त्री पुष्करसिंहधामी रुद्रप्रयागमण्डलस्य उखीमठस्य ओंकारेश्वरमन्दिरस्य आधिकारिकरूपेण उद्घाटनं कृतवान्। यत्र शिशिरऋतौ भगवतः केदारनाथस्य मूर्तिः प्रतिष्ठितः वर्तते। अस्मिन् अवसरे मुख्यमन्त्री शिशिरचारधामयात्राम् आचरतां तीर्थयात्रिकाणां सौविध्यं वर्धनार्थं सर्वकारस्य प्रतिबद्धतायाः उपरि बलं प्रदत्तवान्। रुद्रप्रयागे अन्यस्मिन् कार्यक्रमे मुख्यमन्त्री घोषितवान् यत् राज्यसर्वकारः शीतकालीन- तीर्थयात्रायाः प्रचारार्थं अधिकारिभ्यः मार्गदर्शिकां प्रददाति। अनेन माध्यमेन क्षेत्रे आध्यात्मिकपर्यटनं वर्धिष्यति, सममेव भक्ताः उत्तराखण्डस्य शीतकालीन दृश्यानाम् आकर्षणस्य च अनुभवं अपि करिष्यन्ति।
चारधामयात्रा- उत्तराखण्डे मुख्यमन्त्री पुष्करसिंहधामी चारधामय़ात्रायाः आधिकारिकरूपेण उद्घाटनं कृतवान्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment