Sanskrit Competition : सांस्कृतिक-छात्रविद्वत्सम्मेलनम् -संस्कृतभाषणे श्रुतिकौशल, मन्त्रोच्चारणे वंशिकासागर, श्लोकोच्चारणे अक्षिता, गीतिकागायने सोहानी च प्रथमे स्थाने
हिमसंस्कृतवार्ता: – आनी।
हिमाचल संस्कृत अकादमी हिमाचल सर्वकार: शिमला द्वारा वर्ष २०२४-२५ इत्यस्य सत्रस्य कृते विद्यालयीयानां छात्राणां संस्कृतप्रतियोगितानाम् आयोजने कुल्लूजनपदस्य प्रतियोगिता: सांस्कृतिकछात्रविद्वत्सम्मेलनम् राजकीये वरिष्ठमाध्यमिके विद्यालये आनी इत्यत्र च सम्पन्ना:। छात्रै: सोत्साहेन संस्कृतप्रतियोगितासु सहभागिता कृता। उद्घाटनसत्रस्य मुख्यातिथि: जवाहर ठाकुर: प्रधानाचार्य: कन्यावरिष्ठमाध्यमिकविद्यालय: आनी , अध्यक्ष: प्रधानाचार्य: बालवरिष्ठमाध्यमिकविद्यालय: आनी श्यामानन्द: शर्मा एवं संस्कृतविद्वान् पूर्वसचिव: अकादमी डॉ मस्तरामशर्मा सरस्वतीमातु: पुरत: दीपप्रज्ज्वालनेन माल्यार्पणेन च शुभारम्भं कृतवन्त:। सारस्वतातिथि रूपेण सेवानिवृत्त: प्राचार्य: डॉ लीलाधर: वात्सायन:, डॉ ऋतेश: शर्मा, शास्त्री लोकपाल:, संस्कृतशिक्षकपरिषद: कुल्लूजनपदस्य अध्यक्ष: हेमलाल: सेवानिवृत्त: संस्कृत शिक्षक: च आसन्। अकादमी सचिव: डॉ केशवानंद कौशल: अवदत् यत् विद्यालयीया छात्राणां कनिष्ठवर्गस्य द्वे प्रतियोगिते मन्त्रोच्चारणं श्लोकोच्चारणं च अभवताम् तथैव वरिष्ठवर्गस्य अपि संस्कृतगीतिका एवं संस्कृतभाषणम् एते द्वे प्रतियोगिते सम्पन्ने। मन्त्रोच्चारणे वंशिका सागर राजकीयवरिष्ठमाध्यमिकविद्यालय: आनी प्रथमम्, , सुरभि सरस्वतीविद्यामंदिरं दलाश: द्वितीयम्, राजकीय-उच्घविद्यालय: रोवा तृतीयम्, समीर: राजकीयवरिष्ठमाध्यमिकविद्यालय: लढागी चतुर्थं स्थानं प्राप्तवन्त:।
श्लोकोच्चारणे अक्षिता कुमारी राजकीयवरिष्ठमाध्यमिकविद्यालय: निगान प्रथमम्, शगुण राजकीयवरिष्ठमाध्यमिकविद्यालय: बुच्छैर द्वितीयम्, विपुल राजकीय-वरिष्ठ-माध्यमिक-विद्यालय: आनी तृतीयम् , अदिति: कुमारी राजकीयवरिषठ-माध्यमिकपाठशाला रोवा चतुर्थपुरस्कारं प्राप्नुवन्।
संस्कृतगीतिकाप्रतियोगितायां सोहानी शर्मा राजकीयकन्यावरिष्ठमाध्यमिकविद्यालय: आनी प्रथमं, पवन: राजकीयवरिष्ठमाध्यमिकविद्यालय: छात्र आनी द्वितीयम्, मीनाक्षी शर्मा राजकीयवरिष्ठमाध्यमिकविद्यालय: सवाड़ तृतीयम्, अक्षिता राजकीयवरिष्ठमाध्यमिकविद्यालय: निगान चतुर्थम् पुरस्कारं प्राप्नुवन्।
संस्कृतभाषणप्रतियोगितायां श्रुति शर्मा राजकीयकन्यावरिष्ठमाध्यमिकविद्यालय: आनी प्रथमम्, अनामिका राजकीयवरिष्ठमाध्यमिकविद्यालय: बुच्छैर: द्वितीयम्, आरती ठाकुर राजकीयवरिष्ठमाध्यमिकविद्यालय: आनी तृतीयं, महक सरस्वतीविद्यामन्दिरं दलाश: च चतुर्थं स्थानं प्राप्तवन्त:। एवमेव त्रीणि प्रथमे स्थानानि प्राप्य राजकीयकन्यावरिष्ठमाध्यमिकविद्यालय: आनी सर्वोत्तम: विद्यालय: इति पुरस्कारं प्राप्नोत्।
पुरस्कारवितरणसमारोहस्य मुख्यातिथि: डॉमस्तरामशर्मा सेवानिवृत्त: विशेषाधिकारी पूर्वसचिवश्च संस्कृत-अकादमी प्रधानाचार्य: कन्यावरिष्ठमाध्यमिकविद्याय: अकादमी सचिव: च डॉ केशवानंद: कौशल: विजेतॄन छात्रान् पुरस्कृतवन्त:। डॉ मस्तरामशर्मा स्वीये सम्बोधने अकथयत् यत् संस्कृतस्य संवर्द्धनाय छात्रेषु अभिरुचि-उत्पादनाय च संस्कृत – अकादमी द्वारा प्रशंसनीयं कार्यं क्रियते। आगामी काल: भारतीय- ज्ञान-परम्पराया: अस्ति सा परम्परा संस्कृते एव निहिता अस्ति।
राजकीयवरिष्ठमाध्यमिकविद्यालयस्य झण्डूत्ताया: प्रधानाचार्य: जवाहर: ठाकुर: प्रतियोगितानाम् आयोजनाय आनी विद्यालयस्य चयनं कर्तुम् अकादम्या: धन्यवादं ज्ञापितवान्। अपि च सर्वेषाम् विदुषां शिक्षकाणां प्रतिभागिछात्राणां च अभिनन्दनं कृतवान्।