Kangana Ranaut : उच्चन्यायालये उत्तरं समर्पितवती कंगनारणौत, मण्डी लोकसभानिर्वाचनाय आह्वानम् दत्तम् अस्ति
हिमसंस्कृतवार्ता: – शिमला। हिमाचलप्रदेशस्य मण्डीतः भाजपासांसद कङ्गनारणौत लोकसभानिर्वाचनं निरस्तं कर्तुं याचिकायां सोमवासरे उत्तरं समर्पितवती। न्यायाधीशः संदीपशर्मा इत्यस्य न्यायालयेन प्रकरणस्य श्रवणं कृतम्। न्यायालयेन याचिकाकर्त्रे कङ्गना इत्यनया प्रवेशितस्य उत्तरस्य प्रत्युत्तरं दातुं कथितम् अस्ति। अस्य प्रकरणस्य अग्रिमश्रवणं चतुर्सप्ताहानाम् अनन्तरं भविष्यति।
ध्यातव्यं वर्तते यत् याचिकाकर्ता लायकरामनेगी मण्डीसंसदीयक्षेत्रस्य निर्वाचनाधिकारिण: उपरि आरोपं कृतवान् यत् लोकसभानिर्वाचने तस्य नामाङ्कनं अनुचिद्रूपेण नाङ्गीकृतम् अस्ति। नामाङ्कनस्य अस्वीकारस्य कारणात् याचिकाकर्ता निर्वाचनं कर्तुं न शक्तवान्। सः वनविभागात् निवृत्तः अस्ति। सः न्यायालयात् लोकसभानिर्वाचनं निरस्तीकर्तुं आग्रहं कृतवान्। तस्य अधिवक्ता न्यायालयं न्यवेदयत् यत् नामाङ्कनस्य समये आवेदकं कथितं यत् सम्बन्धितविभागैः सर्वकारीयवासार्थं स्वतन्त्रतया निर्गतस्य विद्युत:, जलस्य, दूरभाषस्य च अनापत्ति-प्रमाणपत्राणि (एनओसी) अपि प्रदातव्यानि भविष्यन्ति। एतानि सर्वाणि प्रमाणपत्राणि दातुं परदिनपर्यन्तं समयः दत्तः आसीत्। नामाङ्कनपत्राणां निरीक्षणं मई १५ दिनाङ्के भवितुम् अर्हति स्म। परदिने निर्वाचन- अधिकारी एतानि प्रमाणपत्राणि अस्वीकृतवान्। अस्य कारणात् याचिकाकर्ता मण्डी संसदीयनिर्वाचनक्षेत्रे आयोजितस्य लोकसभानिर्वाचनस्य निरस्तीकरणस्य आग्रहं उत्थापितवान् अस्ति।