मन की बात- तकनीकिसंबद्धयुवभिः वृद्धानां रक्षणार्थम् अन्तर्जालीय- छद्म- प्रकल्पानाम् अवरोधनार्थम् आह्वानम्
हिमसंस्कृतवार्ता:- प्रधानमन्त्री नरेन्द्रमोदी तकनीकिसंबद्धयुवभिः वृद्धानां रक्षणार्थम् अन्तर्जालीय- छद्म- प्रकल्पानाम् अवरोधनार्थम् आह्वानं विहितवान्। सः उक्तवान् यत् सर्वकारे डिजिटल- अरेस्ट- इत्याख्यस्य कोऽपि प्रावधानः नास्ति इति। मनोगतम् इत्यस्य षोडशोत्तरैकशततमे प्रकरणे सम्बोधयन् प्रधानमन्त्री नरेन्द्र मोदी सबलं प्रतिपादितवान् यत् वृद्धाः बाला च अन्तर्जालीय- छद्मप्रकल्पस्य सर्वाधिकाः ग्रस्ताः सन्ति। तेषां सुरक्षा सर्वेषां दायित्वम् अस्ति। प्रधानमंत्री घोषितवान् यत् आगामिवर्षे स्वामीविवेकानन्दस्य द्विषष्ठ्योत्तर- द्विसहस्रतमवर्षस्य जन्मदिवसावसरे दिल्लीनगरे ‘विकासभारतयुवानेतासंवादस्य आयोजनं भविष्यति। स्वामी विवेकानन्दस्य जन्मदिवसस्य स्मरणार्थ देशे प्रतिवर्षं जनवरी मासस्य द्वादशदिनाङ्के युवादिवसः आचर्यते। ग्राम- खण्ड- जनपद- राज्येभ्यश्च चिताः एतादृशाः सहस्रद्वयं युवकाः भारत-मण्डपे संवादार्थं समागमिष्यन्ति। प्रधानमन्त्री केषाञ्चन युवानाम् उदाहरणं दत्तवान् ये समाजाय निःस्वार्थभावेन कार्यं कुर्वन्ति, अन्येभ्यः अपि प्रेरणाम् यच्छन्ति। अद्यतनविदेशभ्रमणानां स्मरणं कुर्वन् प्रधानमन्त्री मोदी भारतीयमूलस्य जनाः भारतीयसंस्कृतेः संरक्षणे प्रचारे च सहाय्यं कुर्वन्ति इति अवदत्। गुयानादेशे एकः ‘मिनी इण्डिया’ निवसति इति तथ्यं निर्दिश्य असौ उक्तवान् यत् गुयानादेशे भारतीयमूलस्य जनाः प्रत्येकस्मिन् क्षेत्रे देशस्य नेतृत्वं कुर्वन्ति। तेनोक्तं यत् प्रथमवारम् उपनिषदानां स्लोवाकभाषायाम् अनुवादः विहितः। प्रधानमन्त्रिणा उक्तं यत् भारतस्य प्राचीन- सागरीय- क्षमतया सम्बद्धानां प्रमाणानां संरक्षणार्थ देशे अपि अभियानं प्रचलति। प्रधानमन्त्री मोदी उक्तवान् यत् “एक पेड़ माँ के नाम” अभियानेन केवलं पञ्चमासेषु एव शतकोटिवृक्षरोपणस्य महत्त्वपूर्ण कार्य सञ्जातम्। अस्मिन् अभियाने देशस्य सर्वेभ्यः भागेभ्यः जनाः भागं गृहीतवन्तः इति ज्ञात्वा प्रधानमन्त्री प्रसन्नः अभवत्।
प्रधानमन्त्री नरेन्द्रमोदी नवदेहल्या: भारतमण्डपे अन्तार्राष्ट्रीय- सहकारी- गठबन्धनस्य वैश्विक- सहकारीसम्मेलनस्य उद्घाटनं करिष्यति
हिमसंस्कृतवार्ता:- नवदेहली प्रधानमन्त्री नरेन्द्रमोदी नवदेहल्या: भारतमण्डपे अन्तार्राष्ट्रीय- सहकारी- गठबन्धनस्य वैश्विकसहकारीसम्मेलनस्य उद्घाटनं विधास्यति। अवधेयास्पदं वर्तते यत् भारते तावत् इदं सम्मेलनं प्रथमं वारं आयोज्यते। अवसरेऽस्मिन् सः पञ्चविंशत्युत्तर द्विसहस्रतमवर्षस्य अन्तार्राष्ट्रीयसहकारीवर्षस्य स्मारकडाकपत्रस्य विमोचनं विधास्यति। प्रायः त्रिसहस्राधिकाः प्रतिनिधयः कार्यक्रमेऽस्मिन् भागं गृह्णन्ति।
मन की बात- तकनीकिसंबद्धयुवभिः वृद्धानां रक्षणार्थम् अन्तर्जालीय- छद्म- प्रकल्पानाम् अवरोधनार्थम् आह्वानम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment