पर्वतानां सम्राज्ञी शिमला इत्यत्र पर्यटका: समागताः, रिजप्रांगणे अश्वारोहणस्य आनन्दः प्राप्तः
हिमसंस्कृतवार्ता:- शिमला।
हिमाचलप्रदेशस्य राजधान्या: शिमलायां सप्ताहान्ताय सैलानिनः अधिकसंख्यया समागताः। शुक्रवासरे सैलानिनः नगरस्य ऐतिहासिके रिजप्रांगणे मालरोडे च सुखम् अनुभवन्। अस्मिन् काले अनेकैः सैलानिभिः रिजे अश्वरोहणस्य आनन्दः लब्धः। सैलानिनः रिजे स्थितपर्वतानां सौन्दर्यं दृष्ट्वा विस्मयमुद्गिरन्तः आसन्। अनेकैः प्रसिद्धं जाखु हनुमानमन्दिरं च प्राप्तम्। शनिवासरे सैलानिनां संख्या अधिकं भविष्यति इति अपेक्ष्यते।
हिमाचलप्रदेशस्य पञ्चसु जनपदेषु वर्षा- हिमपातस्य सम्भावना।
हिमसंस्कृतवार्ता: शिमला। पश्चिमीय विक्षोभस्य सक्रियतया हिमाचलप्रदेशस्य पञ्चसु जनपदेषु वर्षा- हिमपातस्य सम्भावना वर्तते। मौसमविज्ञानकेन्द्रस्य शिमलायाः अनुसारं 23 नवम्बरदिने चंबा, कांगड़ा, किन्नौर, लाहौल स्पीति, कुल्लू जनपदेषु उच्चभूप्रदेशेषु वर्षा- हिमपातश्च भविष्यति। अन्येषु भागेषु सप्तदिनेषु वायुमानं शुष्कं भविष्यति इति संकेतितम्।
तापमानस्य पतनं सम्भाव्यते
वर्षा- हिमपातस्य स्थितौ प्रदेशे न्यूनतमं च अधिकतमं च तापमानं आगामी त्रि-चतुर्दिनेषु 1-2 डिग्री सेल्सियस पर्यन्तं पतिष्यति। शुक्रवारदिने भाखड़ा बन्धक्षेत्रे (बिलासपुरे), सुन्दरनगरप्रदेशे च धूम अभवत्। विभागेन भाखड़ाबन्धस्य जलाशयक्षेत्रेषु, बल्हघाट्याः (मण्डी) कतिपयभागेषु 25 नवम्बरपर्यन्तं प्रातः सायंकाले च गहनधूमस्य पीत सचेतना (यलो अलर्टः) प्रदत्तः।
कस्मिन् स्थले कियत् न्यूनतमं तापमानं?
उच्चभूप्रदेशेषु शीतलहरः सततम् अनुभूयते। चतुर्षु स्थलेषु न्यूनतमं तापमानं ऋणाङ्के (माइनस) दत्तम् अस्ति। शिमलायाः न्यूनतमं तापमानं 8.2, सुन्दरनगरे 5.5, भुंतरे 3.5, कल्पायाम् 0.2, धर्मशालायाम् 9.0, ऊनायाम् 5.3, नाहने 10.0, केलांगे -2.0, पालमपुरे 6.2, सोलने 4.8, मनाल्यां 2.8, कांगड़ा इत्यत्र 7.6, मण्ड्यां 6.0, बिलासपुरे 7.4, हमीरपुरे 6.5, चंबायां 6.7, डलहौस्यां 8.1, कुफर्यां 7.3, कुकुमसेरी -4.1, नारकण्डायाम् 4.5, भरमौरे 6.5, रिकांगपिओ 3.0, सेऊबागे 2.8, धौलाकुआं 8.9, बरठीं 5.0, समदो -1.3, कसौल्यां 9.0, ताबो -8.7, सैंज 5.4, बजौरा 5.2 डिग्री सेल्सियस इति निबद्धम्।