HP CPS APPOINTMENT CASE: मुख्यसंसदीयसचिवप्रकरणे उच्चत्तमन्यालयात् महदाश्रय:, विधायकपदे स्थास्यन्ति षड्पूर्वमुख्यसंसदीयसचिवा:
हिमसंस्कृतवार्ता: – देवराज:, शिमला।
हिमाचलप्रदेशसर्वकाराय मुख्यसंसदीयसचिवप्रकरणे (सीपीएस) उच्चत्तमन्यालयात् महदाश्रय: अमिलत्। पूर्वमुख्यसंसदीयसचिवा: (सीपीएस) स्वपदे अर्थात् विधायकत्वेन स्थास्यन्ति। उच्चत्तम न्यालयस्य आदेशानुसारं मुख्यसंसदीयसचिवा: विधायकत्वेन अयोग्या: न भविष्यन्ति। एतेषु उच्चन्यालयस्य निर्णयस्य पञ्चाशतम: अनुच्छेद: स्वीकृत: न भविष्यति। प्रकरणे शीर्षन्यालयः राज्यसर्वकारं चतुर्दशदिनानाम् सूचनापत्रं (नोटिस) दत्तम्। उच्चत्तमन्यालये प्रकरणस्य अग्रिमं श्रवणं जनवरीमासस्य विंशति: दिनाङ्के भविष्यति। मुखयन्यायाधीशस्य खण्डपीठेण प्रकरणस्य श्रवणं कृतम्। हिमाचलप्रदेशस्य मुख्यसंसदीयसचिवानां विधिनासम्बन्धित पृथक्-पृथक् याचिकायाम् उच्चत्तमन्यायालये श्रवणं जातम्। हिमाचलसर्वकारपक्षतः अस्मिन् प्रकरणे वरिष्ठाधिवक्ता कपिलसिब्वलः अभिषेक मनुसिंघवी च पक्षमुपस्थापयन्त: सन्ति। उच्चन्यालयस्य निर्णयस्य अनुच्छेदस्य (पैरा) पञ्चाशतानुसार विधायकानाम् सदस्यता समाप्ता भवितुमर्हति स्म, परञ्च अधुना उच्चत्तमन्यालयस्य निर्णयानुसारं विधायकाः स्वपदे आसीना: भविष्यन्ति।