KKSU Ramtek : कविकुलगुरुकालिदाससंस्कृत- विश्वविद्यालये मङ्गलवासरे भविष्यति शास्त्रभारतीव्याख्यानमालाया: आयोजनम्
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयेन १२ नवम्बरदिनांके भारतीयदर्शनयोगविभागसहकारेण शास्त्रभारतीव्याख्यानमालाया: आयोजनं भविष्यति। व्याख्यानमाला प्रज्ञा भारतीवर्णेकर सभागारे आयोज्यते। शास्त्रभारती व्याख्यानमाला भारतीयदर्शनविभागेन आयोजिता व्याख्यानमाला अस्ति, यस्मिन् दर्शनशास्त्रस्य विविधविषयेषु व्याख्यानानां आयोजनं भवति।
मुख्यवक्ता पतञ्जलियोगपीठम्, हरिद्वारतः प्रमुखः योगसाधकः योगप्रचारकः च स्वामी परमार्थदेवः अस्ति। स्वामी परमार्थदेव: ‘व्यक्तित्वविकासे योगस्य आहारस्य च भूमिका’ इति विषये व्याख्यानं प्रदास्यति। अस्याः व्याख्यानमालायाः अध्यक्षता माननीय कुलपतिः प्रो. हरेरामत्रिपाठी करिष्यति। अस्य व्याख्यानकार्यक्रमस्य आमन्त्रक: मा. कुलसचिव: डॉ. देवानंदशुक्ल: एवं रामटेकपरिसरस्य निदेशक: प्रो. हरेकृष्ण अगस्ती विशेषेण उपस्थितौ भविष्यत:।
अस्य व्याख्यानमालाया: समन्वयक: प्रो. कलापिनी अगस्ती, भारतीयधर्म, दर्शनं एवं संस्कृति संकायस्य अधिष्ठाता एवं समन्वयक: डॉ. सचिन द्विवेदी सहसंयोजकश्च प्रो. अतुल गालेरावः वर्तते।