ट्रम्पेन टॉम-होमनः सीमा-निर्वासन-नीति-मुख्यत्वेन नियुक्तः
वार्ताहर: -ईदरधीरज: हैदराबाद:। अमेरिकायाः निर्वाचितः राष्ट्रपतिः डोनल्ड-ट्रम्पेन अमेरिकाप्रवासशुल्कप्रवर्तनस्य पूर्वाध्यक्षः टॉम-होमनः स्वीये आगामिनि प्रशासने सीमा-प्रबन्धकत्वेन सञ्ज्ञितः।
निर्वाचनात् पूर्वं ट्रम्पेन भणितं यत् सः अमेरिकायाः इतिहासस्य बृहत्तमं निर्वासनकार्यक्रमं निरवक्ष्यत् तथा च सर्वान् अवैधान् प्रवासिणः निरवासयिष्यत्।
आगणनानुसारम् अमेरिकायां चतुर्दशं वा पञ्चदशं वा दशलक्षाणि अवैधाः प्रवासिणः स्युः।
ट्रूथ्-सोषल्-नामके सामाजिकमाध्यमे सः लिखितवान् यत् अमेरिकायाः सर्वासां भू-सागर-वायु-सीम्नां दायित्वं होमनस्य भविष्यति तथा च “अवैधप्रवासिणः स्वस्वदेशान् प्रति निर्वासनस्य” कार्यभारस्य आध्यक्ष्यम् अपि।
“चिरकालात् मम परिचितः टॉमः अपिच टॉमात् इतरः कोऽपि सीम्नां परिरक्षणे नियन्त्रणे च समर्थः न स्यात्। अथ टॉम-होमनः एव अवैधानाम् अन्यदेशीयानां स्वस्वमूलदेशान् प्रति निर्वासनस्य कार्यभारस्य अध्यक्षः भविष्यति। टॉमाय मम अभिनन्दनानि। निस्संशयं सः अद्भुतं चिरापेक्षितं कार्यं करिष्यति।” इति ट्र्म्पेन निगदितम्।
लोकतान्त्रिकदलस्य अभ्यर्थिनीं कमलाहारिसां विरुध्य ट्रम्पस्य विजयवति अभियाने अवैधप्रवासः मुख्यः विषयः जातः। अवैधानां प्रवासिनां मेक्सिकोसीमाद्वारा जायमानस्य अन्तःस्रवणस्य वा तैः सम्बधितानाम् अपराधानां वा विषये अभियानस्य कृते बहुलं, बहुवारं द्विपक्षीयं च समर्थनम् आसीत्।