रतनटाटावर्याय केन्द्रीयमन्त्रिणा अमितशाहेन प्रदत्ता श्रद्धाञ्जलिः
हिमसंस्कृतवार्ताः मुम्बई। केन्द्रीयमन्त्रिणा अमितशाहेन गुरुवासरे केन्द्रसर्वकारपक्षतः दिग्गजाय उद्योगपतिने दानवीराय रतनटाटा वर्याय अन्तिमसंस्कारवेलायां श्रद्धाकुसुमाञ्जलिः समर्पिता। रतनटाटावर्यस्य शरीरम् अत्र दर्शनार्थं स्थापितमासीत्। अमितशाहेन सह केन्द्रीयमन्त्री पीयूषगोयलः, महाराष्ट्रस्य मुख्यमन्त्री एकनाथशिन्दे, उपमुख्यमन्त्री देवेन्द्रफडनवीस, केन्द्रीयमन्त्री उपस्थिताः आसन्। गृहमन्त्रिणा एकस्मिन् शोकसन्देशे उक्तं यत् महान उद्योगपतिः सत्यवादी राष्ट्रचिन्तकः च आसीत् रत्नटाटा वर्यः यस्य निधनेन राष्ट्राय महानहानिरभवत्। तेनोक्तं यत् रत्नटाटावर्येन निस्वार्थभावेन स्वजीवनं राष्ट्रविकासाय समर्पितः। अमितशाहेनोक्तं यत् उद्याेगक्षेत्रे सह ध्रुवतारकमिवासीत्। अमितशाहमतिरिच्य राष्ट्रवादीकांग्रेसस्य अध्यक्षः शरदपवारः, कन्दुकक्रीडकः सचिनतेंदुलकरः, महाराष्ट्रनवनिर्माण सेनाया अध्यक्षः राजठाकरे सहितम् अनेकैः प्रसिद्धैः जनैः रत्नटाटा वर्यं श्रद्धाञ्जलिः समर्पिता।
रतनटाटावर्याय केन्द्रीयमन्त्रिणा अमितशाहेन प्रदत्ता श्रद्धाञ्जलिः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment