लखनऊस्थकेन्द्रीयसंस्कृतविश्वविद्यालयः, लखनऊपरिसर: एवं लखनऊस्थविविधविद्यालयानां संयुक्ततत्त्वावधानेन संस्कृतदिवससमारोहः अनुष्ठितः
१६.८.२०२४ तमे दिनाङ्के केन्द्रीयसंस्कृतविश्वविद्यालयः, लखनऊपरिसर:, लखनऊ एवं लखनऊस्थविविधविद्यालयानां संयुक्ततत्त्वावधानेन लखनऊ-नगरस्थविभिन्नेषु विद्यालयेषु संस्कृत-दिवस-समारोहः समायोजितः। इमे समारोहाः केन्द्रीयसंस्कृतविश्वविद्यालयस्य यशस्वीकुलपतिनाम् आचार्यश्रीनिवासबरखेड़ीमहोदयानां संरक्षणे तथा च केन्द्रीयसंस्कृतविश्वविद्यालयस्य लखनऊपरिसरस्य निदेशकमहोदयानाम् आचार्यसर्वनारायणझामहोदयानां प्रधानसंयोजनेन सम्पन्नाः।
केन्द्रीयसंस्कृतविश्वविद्यालयः, लखनऊपरिसरः एवं पीएम श्री केन्द्रीयविद्यालयः, गोमतीनगरम्, लखनऊ इत्यनयो: संयुक्ततत्त्वावधानेन लखनऊगोमतीनगरस्थ पीएम श्री केन्द्रीयविद्यालये प्रातः 7:00 वादने उप-प्राचार्यायाः श्रीमतीसंगीतासक्सेनामहोदयाया: अध्यक्षतायां संस्कृत-दिवस-समारोहोऽयं सम्पन्नः जातः। अस्मिन्नवसरे मुख्यवक्त्रीरूपेण विद्यालयस्य संस्कृतप्राध्यापिका श्रीमतीशैलमसक्सेना महोदया उपस्थिता आसीत्। संस्कृताध्यापकः श्रीविजयबहादुरमहोदयः अपि उपस्थितः आसीत्। अस्मिन्कार्यक्रमे विद्यार्थिनां कृते सुभाषितश्लोकगानस्पर्धा आयोजिता। तस्यां प्रतियोगितायां प्रथम: किशोरी, द्वितीय: प्रखरः, तृतीय: अरण्या, सान्त्वना सृष्टिः च पुरस्कारान् प्राप्तवन्तः। प्रो. लोकमान्यमिश्रमहोदयानां संयोजनेन, डा.रुद्रनारायणनरसिंहमिश्रमहोदयानां सह-संयोजनेन एवञ्च शिक्षाशास्त्रविभागीयतृतीयसत्रार्द्धछात्राध्यापकैः छात्राध्यापिकाभिश्च कार्यक्रमः सम्पादितः।
केन्द्रीयसंस्कृतविश्वविद्यालयः, लखनऊपरिसरः एवं द इंडियन पब्लिक इंटर कॉलेज, विनयखण्डः, गोमतीनगरम्, लखनऊ इत्यनयो: संयुक्ततत्त्वावधानेन मध्याह्ने 12:30 वादने विद्यालयस्य प्रबन्धिकानां श्रीमतीविमलायादवमहोदयानाम् अध्यक्षतायां संस्कृत-दिवस-समारोहोऽयं सम्पन्नः जातः। अस्मिन्नवसरे मुख्यवक्त्रीरूपेण विद्यालयस्य प्रधानाध्यापिका श्रीमतीउषाउपेतिमहोदया उपस्थिता आसीत्। अस्मिन्कार्यक्रमे विद्यार्थिनां कृते संस्कृतश्लोकगानस्पर्धा आयोजिता। तस्यां प्रतियोगितायां प्रथमस्थानं साक्षी तिवारी, द्वितीयस्थानं मोहसीन खान एवं व्याख्या सिंह, तृतीयस्थानं संगमः एवं रोशनी च प्राप्त्वा पुरस्कारान् प्राप्तवन्तः। अस्य कार्यक्रमस्य संयोजक: प्रो. देवीप्रसाद द्विवेदी महोदय: आसीत्। शिक्षाशास्त्रविभागीयतृतीयसत्रार्द्धछात्राध्यापकैः छात्राध्यापिकाभिश्च कार्यक्रमोऽयं सम्पादितः।
केन्द्रीयसंस्कृतविश्वविद्यालयः, लखनऊपरिसरः एवं प्रकाशबालविद्यामन्दिरइण्टर काँलेज, विशालखण्डः-१, गोमतीनगरम्, लखनऊ इत्यनयो: संयुक्ततत्त्वावधानेन मध्याह्ने 1:00 वादने विद्यालयस्य प्रबन्धकानां श्रीरामदयालमौर्यमहोदयानाम् अध्यक्षतायां संस्कृत-दिवस-कार्यक्रमोऽयं सम्पन्नः जातः। अस्मिन्नवसरे विद्यालयस्य प्रधानाध्यापिका श्रीमतीतृप्तिसिंहमहोदया मुख्यवक्त्रीरूपेण उपस्थिता आसीत्। अस्मिन्कार्यक्रमे विद्यार्थिनां कृते संस्कृतश्लोकगानस्पर्धा आयोजिता। अस्मिन् कार्यक्रमे संस्कृतश्लोकगानम्-भाषणम्-संस्कृतगीताप्रतियोगिताः आयोजिताः, यासु प्रथमस्थानं गौरवः, द्वितीयस्थानं आर्यकुमारः, तृतीयस्थानं आयुषकुमारः, सान्त्वनास्थानं कृष्णश्च प्राप्त्वा पुरस्कारान् प्राप्तवन्तः। अस्य कार्यक्रमस्य संयोजक: प्रो.गणेशशंकरविद्यार्थीमहोदय: आसीत्। शिक्षाशास्त्रविभागीयतृतीयसत्रार्द्धछात्राध्यापकैः छात्राध्यापिकाभिश्च कार्यक्रमोऽयं सम्पादितः।
केन्द्रीयसंस्कृतविश्वविद्यालयः, लखनऊपरिसरः एवं गंगोत्रीशिशुमन्दिरपब्लिक स्कूल, ग्वारीग्रामः, गोमतीनगरम्, लखनऊ इत्यनयो: संयुक्ततत्त्वावधानेन मध्याह्ने 12:00 वादने विद्यालयस्य प्रबन्धिकानां श्रीमतीमंजुघिल्डियालमहोदयानाम् अध्यक्षतायां संस्कृत-दिवस-कार्यक्रमोऽयं सम्पन्नः जातः। अस्मिन्नवसरे विद्यालयस्य प्रधानाध्यापिका मोनिकाघिलडियालमहोदया मुख्यवक्त्रीरूपेण उपस्थिता आसीत्। अस्मिन् कार्यक्रमे संस्कृतश्लोक-मन्त्र-गान-प्रतियोगिताः आयोजिताः, यासु प्रथमस्थानं शिवालिका एवं आशुतोषः, द्वितीयस्थानं अक्षरा एवं प्रेमा सिंह, तृतीयस्थानं राखी एवं रूही, सान्त्वनास्थानं अमन् एवं ईरम खान् श्च प्राप्त्वा पुरस्कारान् प्राप्तवन्तः।
अस्य कार्यक्रमस्य संयोजक: प्रो.अवनीशअग्रवालमहोदया आसीत्। शिक्षाशास्त्रविभागीयतृतीयसत्रार्द्धछात्राध्यापकैः छात्राध्यापिकाभिश्च कार्यक्रमोऽयं सम्पादितः।