आचार्यकेशवरामशर्मा १५अगस्त स्वातन्त्रयोत्सवे “हिमाचलगौरव” इति सम्मानेन सम्मानितः भविष्यति
संस्कृतज्ञानां कृते परमहर्षस्य वार्ता वर्तते यत् हिमाचलस्य अभिनवः कालिदासः, महामहोपाध्यायः प्रो./आचार्य केशवरामशर्मा हिमाचलस्य राजस्तरीये स्वातन्त्रयोत्सवे देहरायां हिमाचलगौरवः इत्यनेन सम्मानेन सम्मानितः भविष्यति। ध्यातव्यमस्ति यत् अवसरे अस्मिन् मुख्यमन्त्री हिमाचलप्रदेशः सुखविन्दरसिंहसुक्खुः स्वयं आचार्यवर्याणां सम्मानं करिष्यति। आचार्यकेशवरामशर्मणः सम्मानस्य वार्तां श्रुत्वा हिमाचलस्य संस्कृतज्ञेषु प्रसन्नतायाः वातावरणमस्ति। अस्मिन् सन्दर्भे विविधेभ्यः संगठनेभ्यः नितरां शुभकामनासन्देशाः आचार्याय प्रेष्यन्ते। 15 अगस्त दिनाङ्के श्री सनातन धर्मसभा रावौण, सोलनम्, साहित्यसंगमः सोलनम्, सरस्वतीसाहित्य एवं कला मंचः सोलनम्, हिमाचलसंस्कृत-अकादमी, हिमाचलराजकीयसंस्कृतशिक्षकपरिषद्, हिमाचलराजकीयमहाविद्यालयसंघः इत्यादिभिः संगठनैः स्वस्वमीडिया पटलेषु आचार्याय वर्धपानानि प्रेषितानि सन्ति।
आचार्यकेशवरामशर्मणे संस्कृतसेवायाः कृते हिमाचलगौरवसम्मानं न केवलं गौरवस्य विषयः, अपितु सम्पूर्णानां हिमाचलजनानाम् अभिमानस्य अवसरः अपि अस्ति, यतोहि एतेषाम् आचार्याणां कठिनपरिश्रमेणेव हिमाचले संस्कृतविद्यालयेषु महाविद्यालयेषु च संस्कृतस्य सम्मानजनका स्थितिः वर्तते। आचार्य केशवशर्मा सम्मानं प्राप्य अस्माकं मातुः संस्कृतस्य मानं वर्धयन्नस्ति। हिमसंस्कृतवार्ताः पक्षतो अपि आचार्याय नैकानि अभिनन्दनानि सन्ति।
आचार्यकेशवरामशर्मा १५अगस्त स्वातन्त्रयोत्सवे “हिमाचलगौरव” इति सम्मानेन सम्मानितः भविष्यति
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment