Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- प्रधानमंत्री मोदी वियनानगरे आस्ट्रियादेशस्य महामात्येन कार्लनेहैमरेन सह वार्ताम् अकरोत्।
- सर्वोच्चन्यायालयेन उक्तं यत् ‘तलाक’ इति परित्यागस्य अनन्तरम् अपि मुस्लिममहिला पतेः भरणपोषणस्य अधिकारिणी अस्ति।
- जलप्लवप्रभावितक्षेत्रेषु नष्टकृषिभूमिः येषां तेषां कृषकाणां कृते उत्तरप्रदेश-सर्वकारः भूमिपट्टानि प्रदास्यति
- उत्तरप्रदेशे बुधवासरे प्रातः उन्नावमण्डलस्य बङ्ङ्गरमाउ-समीपे लखनऊ-आगरा-द्रुतमार्गे दुग्ध- टैंकर-यानेन सह द्वि-स्तरीय-बस-यानस्य आघातेन न्यूनातिन्यूनं अष्टादश जनाः मृताः, नवदश च जनाः घातिताः।
हिमाचलवार्ता:
- भारतीयप्रशासनिकसेवाया: हिमाचलसंवर्गस्य वर्ष-२०१४ तमस्य अधिकारी आशुतोषगर्ग: केन्द्रीय स्वास्थ्य- एवं- परिवारकल्याणम् तथा रसायनं उर्वरकमन्त्रिण: जगतप्रकाशनड्डावर्यस्य निजीसचिवरूपेण नियुक्त:। एतदर्थं भारतसर्वकारस्य कार्मिक- एवं- प्रशिक्षणविभागस्य उपसचिवस्य पक्षत: अधिसूचना निर्गता अस्ति।
- विपक्षनेता जयरामठाकुरः अवदत् यत् राज्यस्य खननव्यापारीणाम् उपरि कृतेषु अन्वेषणेषु भ्रष्टाचारस्य पुष्टिः अभवत्। एतेषां व्यापारीणां मुख्यमन्त्रिणः निकटता प्रकाशं आगच्छति। अस्मिन् विषये मुख्यमन्त्रिणा राज्यस्य जनान् प्रति उत्तरं दातव्यम्, येषां जनानां विरुद्धं अन्वेषणसंस्थाः कार्यविधिं कर्तुं सज्जाः सन्ति तै: सह मुख्यमंत्रिण: कः सम्बन्धः?
- मण्डी-सांसद अभिनेत्री कङ्गनारणौत अवदत् यत् राज्ये भाजपा-सर्वकारस्य निर्माणानन्तरं स्थगित-परियोजनानां कार्यं आरभ्यते। मण्डीनगरस्य स्मार्टसिटीपरियोजना हिमाचलप्रदेशस्य काङ्ग्रेससर्वकारेण स्थगिता अस्ति।सा बुधवासरे मण्डीनगरे स्वकार्यालयस्य औपचारिकम् उद्घाटनं कृतवती।
- राज्ये सर्वकारीयभूमौ स्थाप्यमानानां विद्युत्वाहनानां विद्युत्भरणकेन्द्राणां (चार्जिंगस्टेशन) प्राप्तये बहवः बृहत्कम्पनयः स्वहस्तं प्रयतन्ते। विद्युत्भरणकेन्द्रं प्राप्तुं जियो, अदानी, आईओसीएल इत्येतेषां मध्ये कठिना स्पर्धा अस्ति। एतै: सह कुलम् अष्टकम्पनयः आवेदनं कृतवत्य:, येषां वित्तीयनिविदाः बुधवासरे उद्घाटिताः अभवन्।
- भविष्यस्य आवश्यकतां दृष्ट्वा हिमाचलप्रदेशस्य विभिन्नेषु स्थानेषु उपाश्रितनगराणां विकासाय सज्जता प्रचलति। एतां महत्त्वपूर्णां योजनां कार्यान्वितुं चयनितस्थानेषु उपयुक्तभूमे: अन्वेषणं क्रियते। उपाश्रितनगरयोजनां धरातले अवतारयितुं सर्वकारेण भूमिविक्रयणार्थं सामान्यजनानाम् प्रस्तावाः अपि आमन्त्रिताः सन्ति। प्राविधिकशिक्षा तथा आवासमन्त्री राजेश धर्माणी एतस्य पुष्टिं कृतवान्।