HP Weather : धर्मशालायां ऋतो: सर्वाधिकवर्षा, हिमाचले भूस्खलनेन १५० मार्गाः अवरुद्धा:
हिमसंस्कृतवार्ता: – शिमला ।
हिमाचलप्रदेशे पुनः मानसूनवृष्टिः विनाशं करोति, जनाः च आश्रयस्य लक्षणं न पश्यन्ति। वर्षा-भूस्खलन-कारणात् विभिन्नेषु भागेषु यातायातस्य प्रभावः अभवत्, मार्गेषु यात्रा अपि भयङ्करा अभवत्। भूस्खलनस्य कारणेन राज्यस्य सिरमौरमण्डले राष्ट्रियराजमार्गसहिताः १५० मार्गाः निरुद्धा: अभवन्। अविरामवृष्ट्या ३३४ विद्युत् परावर्तका: ५५ जलयोजनाश्च निरुद्धाः इति कारणेन विद्युत् पेयजलापूर्ति: अपि प्रभाविता अस्ति। काङ्गड़ामण्डलस्य मुख्यालये धर्मशालायां २१४ मिलीमीटर वृष्टिः अभवत्, यत् अस्मिन् ऋतौ अत्यधिकवृष्टेः अभिलेखः अस्ति। एतदतिरिक्तं पालमपुरे २१२ मि.मी., जोगिन्दरनगरे १६९, काङ्गड़ायां १५७, बैजनाथे १४२, जोते ९५, नगरोटासूरियाया़ ९०, सुजनापुरे ७२, धौलाकुआंयां ७०, घमरूरे ६८, नादौने ६३ मि. मी, बरठीं इत्यत्र च ५८ मिलीमीटर वृष्टि: अभवत्।
ऋतुविज्ञानविभागेन आगामिषड्दिनानां कृते वर्षा, वज्रपातः, विद्युत्प्रवाहः च भवितुं ‘पीत-सचेतना’ निर्गता अस्ति। परन्तु अस्मिन् काले अतीव प्रचण्डवृष्टेः सम्भावना नास्ति। ऋतुविभागेन जनान् विशेषतः पर्यटकान् प्रतिकूलं वातावरणं दृष्ट्वा सजगः भवितुम् आह। पर्यटकाः सामान्यजनाः च भूस्खलनप्रवणक्षेत्राणां, नद्यः, धाराणां च समीपं न गच्छन्तु इति निर्देशः दत्तः अस्ति। राज्यस्य आपत्कालीनसञ्चालनकेन्द्रस्य समाचारानुसारं शनिवासरस्य प्रातः पर्यन्तं राज्ये एकः राष्ट्रियराजमार्गः १५० मार्गाः च अवरुद्धा: एव आसन्। एनएच-७०७ मार्गे सिरमौरे वाहनानां गमनम् स्थगितम् अस्ति। एनएच प्राधिकरणेन शीघ्रमेव राजमार्गस्य पुनर्स्थापनस्य विश्वास: कृतः अस्ति। मण्डीमण्डले अधिकतमं १११ मार्गाः निरुद्धा: सन्ति। सिरमौरे १३ मार्गाः, शिमलानगरे नव, काङ्गड़ा-मण्डले एकः कुल्लु-चम्बा-जनपदयोः च अष्ट-८, मार्ग: अवरुद्धाः सन्ति। भूस्खलनेन सर्वाधिकं प्रभावितस्य मण्डीमण्डलस्य विषये वदन् धर्मपुरे २५, थलौटे २२, पद्धर-सिराजयोः १४, जोगिन्दरनगरयोः १०, सरकाघाटे ९, करसोगे पञ्च, गोहरे-मण्ड्यां च त्रीणि, नेरचौके एकः मार्गः च बाधितः। समाचारानुसारं व्यापकवृष्ट्या ३३४ विद्युत्परावर्तकाणां क्षतिकारणात् विद्युत्विच्छेदः भवति। केवलं मण्डीमण्डले २५९ विद्युत्परावर्तका: निरुद्धा: सन्ति। चम्बामण्डले ५८, ऊनायां १९ विद्युत्परावर्तकाणां विफलतायाः कारणेन जनाः विद्युत् अभावस्य सम्मुखीकरणं कुर्वन्ति। एतदतिरिक्तं शिमलानगरे ३३ पेयजलयोजना: बिलासपुरे २२ योजनाः अपि प्रचण्डवृष्ट्या स्थगिता: सन्ति। शिमलामण्डलस्य ठियोगे १८ पेयजलयोजनाः, कुमारसेने १३ च योजना: पङ्कस्य परिमाणं वर्धमानस्य कारणेन निरुद्धा: सन्ति।