Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- राष्ट्रपतिः दौपदी मुर्मुः पूरीरथयात्रासमारोहे भागम् स्वीकृतवती।
- प्रधानमन्त्री नरेन्द्रमोदी सोमवासरात् त्रिदिवसीयः रूस-आस्ट्रिया-देशयोः आधिकारिकप्रवासक्रमे रतः स्यात्।
- दक्षिणकश्मीरस्य कुलगामजनपदे सुरक्षाबलेन आतंकवादिभिः सह संघर्षे षडातंकवादिनः व्यापादिताः।
- एशियन्-डबल्स्-स्क्वाश्-च्याम्पियन्शिप्-क्रीडायां भारतस्य अभय् सिंहः विजयं अवाप्तवान्।
हिमाचलवार्ता:
- Pandoh Dam : पण्डोह-जलबन्धे पूर्व-सचेतना-व्यवस्था स्थापिता भविष्यति, जलबन्ध-द्वाराणाम् उद्घाटितमात्रेण मण्डी-नगरं यावत् हूटर-ध्वनिः भविष्यति।
- रविवासरे हिमाचलप्रदेशे पीतसचेतनायाः मध्ये मिश्रितवायुः अभवत्। अपराह्णे राजधान्यां शिमलानगरे प्रचण्डवृष्टिः अभवत् । प्रातःकाले सूर्यप्रकाशानन्तरं सायंकाले पुनः वातावरणं निर्मलम् अभवत् । राज्यस्य अन्येषु मण्डलेषु अपि मेघाच्छन्ना: अभवन् । कुल्लुजनपदस्य दुर्गमपंचायते गाड़ापारल्या: काथलग्रामे भूस्खलनेन गोशाला ध्वस्ता। चत्वारि गृहाणि संकटग्रस्तानि सन्ति।
- हिमाचलप्रदेशस्य काङ्ग्रेसस्य अध्यक्षा प्रतिभासिंह अवदत् यत् राज्यस्य त्रिषु अपि विधानसभा- उपनिर्वाचनेषु काङ्ग्रेसः विशालबहुमतेन विजयं प्राप्नोति। हमीरपुर-देहरा-नालागढाणां मतदातार: काङ्ग्रेसपक्षे प्रवृत्ताः सन्ति, राज्ये काङ्ग्रेससर्वकारं सुदृढं कर्तुं जनाः एकीकृताः सन्ति।
- हिमाचलप्रदेशे १० जुलै दिनाङ्के भाव्य उपनिर्वाचनानां निर्वाचनकोलाहलः सोमवासरे स्थगितः भविष्यति। गुरुवासरे सायं ५ वादनानन्तरं राजनैतिकदलानि सभाः, जनसभाः च कर्तुं न शक्ष्यन्ति। तथापि द्वारे द्वारे अभियानं निरन्तरं भविष्यति। देहरा, हमीरपुरं, नालागढ-क्षेत्रेषु उपनिर्वाचनस्य सज्जता निर्वाचनविभागेन सम्पन्ना अस्ति।