अयोध्यायां राममन्दिरस्य प्राणप्रतिष्ठायाः मुख्याचार्यस्य पंडित- लक्ष्मीकान्त- दीक्षितस्य निधनम्; काश्यां यजुर्वेदस्य सुविद्वत्षु परिगणितः आसीत्।
अयोध्यायां निर्मितस्य राममन्दिरस्य प्राणप्रतिष्ठायाः कार्यक्रमस्य मुख्याचार्यस्य काशीनगरस्य महतः विदुषः पंडित- लक्ष्मीकान्त- दीक्षितस्य निधनं जातम्। सः ९० तमे वर्षे अन्तिमश्वासं गृहीतवान्। लक्ष्मीकान्त दीक्षितः चिरकालं यावत् अस्वस्थः आसीत्। काश्यां यजुर्वेदस्य सुविद्वत्षु सः परिगणितः आसीत्। सः अपि वेदविद्वान् इति मन्यते स्म। अयोध्यायां रामलल्ला इत्यस्य अभिषेकविधानं लक्ष्मीकान्तदीक्षितस्य अध्यक्षतायां १२१ पण्डितानां दलेन सम्पन्नम् कृतमासीत्। रामलल्ला इत्यस्य अभिषेककाले सः गर्भगृहे अपि उपस्थितः आसीत्।
लक्ष्मीकान्त- दीक्षितः महाराष्ट्रस्य सोलापुरस्य निवासी आसीत्।
पंडित- लक्ष्मीकान्त- दीक्षित: मूलतः महाराष्ट्रस्य सोलापुरनिवासी आसीत्, परन्तु तस्य परिवारः बहुकालात् वाराणसीनगरे एव निवसति स्म। सः स्वमातुलस्य गणेशदीक्षितभट्टात् वेदेषु, संस्कारेषु च दीक्षां प्राप्तवान्। पंडित- लक्ष्मीकान्त- दीक्षित: बनारसस्य मीरघाटे सांगवेद- महाविद्यालयस्य वरिष्ठ: शिक्षक: आसीत्, य: काशीराजस्य साहाय्येन स्थापिता आसीत्।
अतीव शोभनम्