Manali News : विश्वस्य सर्वोच्चे तिलोचोसरोवरे त्रिवर्णध्वजं उत्तोलितवती मनाल्या: कृष्णाठाकुर
हिमसंस्कृतवार्ता- मनाली।
हिमाचलप्रदेशस्य मनाली इति नाम्ना अन्यत् उपलब्धि: अपि योजिता अस्ति। गौशालग्रामस्य पर्वतारोही कृष्णाठाकुर विश्वस्य सर्वोच्चसरोवरं तिलोचो जितवती अस्ति। कृष्णा नेपालस्य १७,८८२ पादपरिमितस्य थोरङ्ग- ला- दर्रा इत्यत्र अपि ध्वजं उत्तोलितवती अस्ति। कृष्णा अस्मिन् अभियाने पञ्चभिः अमेरिकनपर्वतारोहिभिः, दलस्य नेता निम तेंजिन, निक, जयंथी, जोरेड, जोएल, गाइड तेंजिन च इत्येतै: सह सफला अभवत्। कृष्णा तस्य दलेन सह काठमाण्डूतः मई २५ दिनाङ्के अस्य अभियानस्य आरम्भं कृत्वा २८ दिनाङ्के तिलोचो- सरोवरस्य आधारशिबिरं प्राप्तवती। मई २९ दिनाङ्के विश्वस्य सर्वोच्चं तिलोचो-सरोवरं जितवती। ३० मई दिनाङ्के श्रीखरकं प्रति प्रत्यागता। १ जून दिनाङ्के सा थोरङ्ग ला-दर्रां प्रति गत्वा २ जून दिनाङ्के अस्मिन् दर्रा इत्यत्र त्रिवर्णध्वजम् उत्तोलितवती। कृष्णा अवदत् यत् अस्मिन् अभियाने सा अपि समस्यानां सम्मुखीकरणमपि कृतवती। मार्गे तस्य पादौ प्रफुल्लितौ अभवताम्, परन्तु सा साहसं न त्यक्त्वा लक्ष्यं प्राप्तवती। कृष्णया पूर्वं अपि अनेकानि शिखराणि जितानि। सन्देशं दत्त्वा कृष्णा अवदत् यत् मलिनतां न प्रसारयितुं स्वच्छतायां साहाय्यं कर्तुम् अपि तुल्यम् अस्ति। अतः पर्वतारोहिणः पर्वतानामुफरि अवकरं न पातयेयुः, अवकरं च स्वसार्धमेव आनयेयुः।