Priyanka Gandhi : शिमलां प्राप्ता काङ्ग्रेसस्य राष्ट्रियमहासचिव प्रियङ्कागान्धी
अद्यारभ्य करिष्यति निर्वाचनप्रचार:
हिमसंस्कृतवार्ता- शिमला।
कांग्रेसदलस्य राष्ट्रीयमहासचिव प्रियंकागान्धी रविवासरे सायं ५.३० वादने स्वनिवासस्थानं छाराबड़ां प्राप्तवती। लोकसभानिर्वाचनस्य, विधानसभा-उपनिर्वाचनस्य च समये हिमाचले सभाः, जनसभाः च करणीयाः सन्ति । चण्डीगढतः सा उदग्रविमानेन कल्याणी-चक्रविमानस्थलम् आगता । सा मे २९ दिनाङ्कपर्यन्तं हिमाचले एव तिष्ठति।
शिमलातः एव प्रियङ्कागान्धी सोमवासरे चम्बा-शाहपुरयोः निर्वाचनसभायाः कृते प्रस्थास्यति। एतेन सह मे-मासस्य २८ दिनाङ्के सा गगरेटे कुटलैहड़े च निर्वाचनसभाः करिष्यति । तस्मिन् एव दिने बडसरे तस्या: पथप्रदर्शनम् अपि भविष्यति। सायंकाले शिमलानगरं प्रत्यागत्य सा मे २९ दिनाङ्के प्रातःकाले उदग्रविमानेन कुल्लुनगरं प्रति प्रस्थास्यति । तत्र सा मण्डीसंसदीयक्षेत्रात् काङ्ग्रेसप्रत्याशी विक्रमादित्यसिंहस्य पक्षे निर्वाचनसभां करिष्यति। तस्मिन् एव दिने सा मण्डीनगरं गत्वा निर्वाचनमार्गप्रदर्शनं कृत्वा सायंकाले शिमलानगरं प्रत्यागमिष्यति।
आनन्दशर्मण: पक्षे प्रचारं करिष्यति
काङ्ग्रेसस्य तारक-अभियानिका प्रियंकागान्धी सोमवासरे शाहपुर-विधानसभाक्षेत्रस्य चाम्बी-स्थाने जनसभां सम्बोधयिष्यति। सा १२:४५ वादने विमानमार्गेण गगलविमानस्थानकं प्राप्स्यति। तदनन्तरं सा मार्गेण चम्बीस्थानं प्रति गमिष्यति। शाहपुरस्य विधायकः केवलसिंहपठानिया इत्यनेन उक्तं यत् काङ्ग्रेसस्य तारक-अभियानिका प्रियङ्कागान्धी सोमवासरे चम्बाकाङ्गड़ा संसदीयक्षेत्रात् काङ्ग्रेसस्य प्रत्याशी आनन्दशर्मा इत्यस्य पक्षे प्रचारार्थं काङ्गड़ाम् आगच्छति।