Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- इरानदेशे राष्ट्रपतिनिर्वाचनं जूनमासस्य २८ दिनाङ्के भविष्यति।ततः पूर्वं इरानस्य सर्वोच्चनेता अयातुल्ला अलीखामेनेई इत्यनेन राष्ट्रपति इब्राहिम रईसी इत्यस्य उद्ग्रविमानस्य दुर्घटनायां मृत्योः अनन्तरं उपराष्ट्रपतिः मोहम्मद मोखबेरं अन्तरिमराष्ट्रपतिरूपेण नियुक्तः।
- भारतीयजनतापक्षस्य प्रधानमन्त्री वरिष्ठनेता च नरेन्द्रमोदी उक्तवान् यत् काङ्ग्रेसदलं वंशवादी दलम् अस्ति, तद् केवलं एकस्य परिवारस्य हिताय एव अस्ति। बिहारस्य मोतिहारीनगरे जनसभायां सः अवदत् यत् काङ्ग्रेसपक्षस्य नेतृत्वे I.N.D.I. लोकसभानिर्वाचने गठबन्धनस्य हानिः भविष्यति। भ्रष्टाचारे भारतविरोधिप्रचारे च सम्बद्धानां जनानां कृते समुचितं उत्तरं जनसमूहः दास्यति इति सः अवदत्।
- दिल्लीनगरस्य राउस- एवेन्यू- न्यायालयेन गतदिवसे आबकारीनीतिवञ्चन- सम्बद्धे धनशोधनप्रकरणे पूर्व- उपमुख्यमन्त्री आम-आदमीपक्षस्य नेता च मनीष सिसोदियायाः न्यायिकनिग्रहः ३१ मईपर्यन्तं विस्तारितः। अस्य प्रकरणस्य अग्रिमं श्रवणं मई ३१ दिनाङ्के भविष्यति।
हिमाचलवार्ता:
- भारतीयनिर्वाचन- आयोगेन विभिन्नविभागेषु पदोन्नतिनियुक्तिसम्बद्धेषु, स्थानान्तरणादिविषयेषु च आहत्य ६१ प्रकरणेषु अनुमोदनं दत्तम्। अस्माद् कारणात् शतशः लम्बितप्रकरणेषु कर्मचारिणः आश्रयं प्राप्तवन्तः। राज्ये कार्यान्विता आदर्शाचारसंहिता यदा प्रवर्तते तदा आरभ्य निर्वाचनविभागेन राज्यसर्वकारस्य विभिन्नविभागेभ्यः अनुमोदनार्थं ७७ प्रकरणाः प्राप्ताः आसन्।
- केन्द्रीय मंत्री अनुरागठाकुर: अवदत् यत् काङ्ग्रेसेन चीनदेशात् कति कोटिरूप्यकाणि गृहीतानि इति प्रकाशयितव्यम्। सः अवदत् यत् सेनायाः शल्यक्रियाप्रहारविषये काङ्ग्रेसनेतारः प्रश्नान् उत्थापयन्ति, ते देशेन सह ज्ञानस्य प्रकटीकरणं कुर्वन्ति वा? अनुरागठाकुरः अवदत् यत् यदा भारतीयसेना ढोकलामे चीनीसेनायाः कृते उपयुक्तं उत्तरं ददाति स्म तदा काङ्ग्रेसनेतारः चीनीसेनया सह गुप्यकक्षे वार्तां कुर्वन्ति स्म। पिहितद्वारेषु कीदृशानि हस्ताक्षराणि कृतानि इति राहुलगान्धी जनसामान्यं सूचयेत्।
- काजायां या घटना घटिता सा न केवलं निन्दनीया, अपितु राज्यस्य काङ्ग्रेससर्वकारस्य, काङ्ग्रेसपक्षस्य च सुनियोजितं षड्यंत्रम् अपि अस्ति। यथा सर्वकारस्य भ्रष्टतत्वानि भाजपा-प्रत्याशिनां विपक्षनेतृणां च उपरि आक्रमणं कृतवन्तः, तथैव स्पष्टं भवति यत् काङ्ग्रेसदलं भीतम् उत्तेजितं च अस्ति, निर्वाचनं जेतुम् अपि कस्मिन् अपि स्तरे गन्तुं शक्नोति। भाजपा प्रदेशाध्यक्ष डॉ. राजीवबिन्दल: इत्यनेन सोमवासरे सोलननगरे आयोजिते पत्रकारसम्मेलने एते आरोपाः कृताः।
क्रीड़ावार्ता
- भारतीयपुरुषस्य कनिष्ठहॉकीदलस्य यूरोपभ्रमणस्य आरम्भः बेल्जियमदेशस्य उपरि विजयेन अभवत्। उपकप्तानः शारदानन्द तिवारी भारतस्य कृते द्वौ गोलौ कृतवान्।
- जापानदेशे विश्वपैरा एथलेटिकप्रतियोगितायां महिलानां एफ-५१ स्पर्धायां भारतस्य एकता भ्यान स्वर्णपदकं प्राप्तवती अस्ति। सा विंशतिबिन्दुभिः एकद्वयमीटर् यावत् ऋतो: उत्तमं प्रदर्शनं कृतवती।