भारतं विगतत्रयवित्तीयवर्षेषु सर्वाधिकं द्रुतगत्याः वर्धमाना अर्थव्यवस्था अस्ति – केन्द्रीयवित्तमन्त्री निर्मलासीतारमणः
भारतीयजनतापक्षस्य वरिष्ठनेत्री केन्द्रीयवित्तमन्त्री निर्मलासीतारमणः उक्तवती यत् विगतत्रयवित्तीयवर्षेषु भारतं सर्वाधिकं द्रुतगत्याः वर्धमाना अर्थव्यवस्था अस्ति। भारतस्य अर्थव्यवस्थायाः एषा वृद्धिः अग्रे अपि भवितुं शक्नोति । जयपुरे उद्योगिभिः व्यापारिभिः सह वार्तालापं कुर्वन् श्रीमती सीतारमणः अवदत् यत् आगामिनि २५ वर्षाणि भारतस्य कृते अतीव महत्त्वपूर्णानि भविष्यन्ति। सा अवदत् यत् २०२३-२४ वित्तवर्षे भारतेन प्रथमत्रिमासे अष्टप्रतिशतवृद्धिः प्राप्ता अस्ति तथा च चतुर्थे त्रैमासिके अपि एतादृशी वृद्धिः अपेक्षिता अस्ति। सा अवदत् यत् आर्थिकनीतिः, स्थूल-आर्थिक-स्थिरता, स्थिर-सर्वकारः, स्थिर-कर-नीतिः, पारदर्शी-निविदाः, क्रयणं चेत्यादिभिः इति कारणैः विदेशेषु भारतस्य अर्थव्यवस्थायाः विश्वसनीयता वर्धिता अस्ति ।