विदेशमन्त्रालयेन उक्तं यत् भारतस्य इजरायलस्य च सर्वकारयोः अभिसन्धौ प्रथमः कार्यकर्तृसमूहः इजरायलदेशं गतः। गतदिवसे नवीदिल्लीनगरे मन्त्रालयस्य प्रवक्ता रणधीरजायसवालः अवदत् यत् भारतं तेषां सुरक्षाविषये जागरूकः अस्ति, इजरायलप्रशासनात् च तेषां सुरक्षां कल्याणं च सुनिश्चेतुं आग्रहं कृतवान्। द्वयोः देशयोः आन्दोलन-अभिसन्धौ भारतीयाः श्रमिकाः इजरायलदेशं गतवन्तः। अस्मिन् प्रदेशे प्रचलति युद्धात् पूर्वं एषा अभिसन्धि: अभवत् ।
श्री जायसवालः अवदत् यत् एप्रिल-मासस्य प्रथमे दिने सीरियादेशे इरानस्य कूटनीतिकपरिसरस्य उपरि इजरायलस्य आक्रमणस्य विषये भारतं चिन्तितः अस्ति। सः अवदत् यत् पश्चिमएशियायां वर्धमानस्य बलाघातस्य विषये भारतं दुःखितः अस्ति तथा च अस्य कारणेन हिंसायाः अस्थिरतायाः च वर्धनस्य सम्भावनायाः विषयेऽपि चिन्तित: वर्तते। भारतेन सर्वेभ्यः पक्षेभ्यः आग्रहः कृतः यत् अन्ताराष्ट्रीयन्यायालयेन स्वीकृतानां सिद्धान्तानां नियमानां च विरुद्धं कार्याणि न कुर्वन्तु।
अरुणाचलप्रदेशे चीनस्य अधिकारस्य विषये श्री जायसवालः अवदत् यत् अरुणाचलप्रदेशः भारतस्य अभिन्नः भागः अस्ति, भविष्यति च।
भारत-बाङ्गलादेश-सम्बन्धस्य विषये सः उक्तवान् यत् द्वयोः मध्ये द्विपक्षीयसम्बन्धः निकटः अस्ति। श्री जायसवालः उक्तवान् यत् द्वयोः देशयोः मध्ये विभिन्नक्षेत्रेषु समग्ररूपेण सहभागिता वर्तते।
ताइवान-भूकम्पे द्वयोः भारतीययोः लुप्तताया: इति वार्तायां जायसवालमहोदयः अवदत् यत् तौ अधुना सुरक्षितौ, ताभ्यां सह सम्पर्कः कृतः अस्ति।