Sanskritgitani : हिमाचलस्य संस्कृतशिक्षकस्य देशभक्तेः संस्कृतगीतं सामाजिकमाध्यमेषु प्रसिद्धम्
हिमसंस्कृतवार्ताः। प्रदेशस्य गौरवस्य विषयोस्ति यत् हिमाचलशिक्षाविभागस्य संस्कृतशिक्षकः वर्तमानसमये सामाजिकमाध्यमेषु प्रचलने अस्ति। तस्य तव भूमौ स्याद् बलिदानम् (तेरी मिट्टी में मिल जांवा) इति गीतम् एक्स इति पटले बॉलीबुड् इत्यस्य नायकैः प्रचारयिष्यते। तेरी मिट्टी में मिल जावां इत्यस्य हिन्दी गीतस्य रचनाकारः मनोजमुंतशिरः स्वीय एक्सपटले शिवाशर्मणः गीतं सार्वजनिकं कृतवान्। अस्मिन्नेव क्रमे रितेशरजवाड़ा इत्यनेनापि स्वस्य जालपुटे गीतं सार्वजनिकं कृतम्। ध्यातव्यमस्ति यत् शिवाशर्मा हिमसंस्कृतवार्तायामपि प्रवाचकत्वेन सहयोगं करोति। सः विद्यालयकालादेव प्रतिभा सम्पन्नः अस्ति, एतेन सह सः अल्पायौ संस्कृतगीतानां रचनायां सिद्धहस्तो युवाकविः वर्तते। संस्कृतगीतानि इति यूटयूबप्रकल्पे शिवा शर्मा सामाजिकैः सह सम्बद्धः अस्ति। शिवाशर्मणः कर्तव्यनिष्ठ्या सर्वेषु प्रदेशस्य शिक्षकेषु प्रसन्नतायाः वातावरणस्ति। सर्वे शिक्षकाः सामाजिकमाध्यमेषु शिवाशर्मणे शुभकामनाः प्रयच्छन्तः सन्ति।
X_Link
https://x.com/sanskrtagitani/status/1775435697819893971?t=I4r4o5y83WMlOgdPH6o0jw&s=08
यूट्यूब लिंक