१२ सदस्याः राज्यसभायां निर्वाचिताः, राज्यसभा अध्यक्षः जगदीपधनखरः शपथं प्रशासितवान्।
राज्यसभा अध्यक्षः जगदीपधनखरः बुधवासरे उच्चसदनस्य १२ नवनिर्वाचित- सदस्यानां शपथं दत्तवान्। संसदभवने शपथग्रहण-समारोहे राज्यसभा उपाध्यक्षः हरिवंशः, महासचिवः पीके मोदी च उपस्थिताः आसन्। शपथग्रहण- कर्तृषु धर्मशिला-गुप्ता, मनोज-कुमार-झा, संजय-यादव:, गोविंदभाई- लालजीभाई- ढोलकिया, सुभाष-चन्दर:, हर्ष-महाजन:, जीसी चंद्रशेखर:, एल. मुरुगन:, अशोक-सिंह:, चंद्रकांत-हंदौर:, मेधा-विश्राम-कुलकर्णी, साधना-सिंह: सम्मिलिताः आसन्। शपथग्रहणसदस्यानां कार्यकालः अप्रैल- मासस्य ३ दिनाङ्कात् आरभ्यते। राज्यसभा सचिवालयेन उक्तं यत् शपथग्रहणं कृतवत्सु १२ सांसदेषु भारतीयजनतापक्षस्य सप्त, काङ्ग्रेसस्य त्रयः, राष्ट्रीयजनतादलस्य राजदस्य च द्वौ सांसदाः सन्ति। एतेषु त्रयः बिहारस्य, द्वे-द्वौ महाराष्ट्रस्य, मध्यप्रदेशस्य च, एकैकं च गुजरात- हरियाणा- हिमाचलप्रदेश- कर्नाटक- उत्तरप्रदेशस्य च सन्ति। राज्यसभायाः ५४ सदस्याः २, ३ अप्रैल-दिनाङ्के निवृत्ताः अभवन्। राज्यसभायां ४९ सांसदानां कार्यकालः मंगलवासरे सम्पन्नः, पूर्वप्रधानमन्त्री मनमोहनसिंहसहितानाम् पञ्चानां सांसदानां कार्यकालः बुधवासरे समाप्तः भविष्यति।