BJP Himachal : प्रदेशभाजपादलस्य सङ्घटनात्मकी गोष्ठी धर्मशालायां सम्पन्ना
हिमसंस्कृतवार्ता- धर्मशाला।
हिमाचलप्रदेशस्य भाजपादलस्य राज्यस्तरीया सङ्घटनात्मकी गोष्ठी रविवासरे काङ्गड़ाजनपदे सम्पन्ना। यस्यां गोष्ठ्यां भाजपादलस्य राष्ट्रीयाध्यक्ष: जगतप्रकाशनड्डा विशेषरूपेण भागं स्वीकृतवान्। एषा सभा काङ्गड़ाजनपदस्य गग्गल-नगरे स्थिते निजी-अतिथिगृहे अभवत् । भाजपादलस्य प्रदेशाध्यक्ष: डॉ. राजीव बिंदल:, नेताप्रतिपक्ष: जयरामठाकुर:, केंद्रीयमंत्री अनुरागठाकुर:, राष्ट्रीय: उपाध्यक्ष: सौदानसिंह:, प्रदेशप्रभारी अविनाशराय: खन्ना, निर्वाचन प्रभारी श्रीकांत: शर्मा, सहप्रभारी संजयटंडन:, सङ्घट महामंत्री सिद्धार्थनः तेन सह उपस्थिताः आसन्।
गोष्ठ्यां भाजपादलस्य प्रदेशाधिकारिण:, जिलाध्यक्षा:, मोर्चा- अध्यक्षा:, प्रकोष्ठसंयोजका: एवं विभिन्न प्रतिनिधिय: उपस्थिता: आसन् यै: राष्ट्रीयाध्यक्षात् मार्गदर्शनं प्राप्तम्। सभायां सेवानिवृत्तः भारतीयप्रशासनिकसेवाया: (IAS) अधिकारी जेसी शर्मा औपचारिकरूपेण भाजपादलस्य सदस्यता स्वीकृतवान्। जेपीनड्डा अवदत् यत् काङ्गड़ातः आरब्धं एतद् अभियाऩ आगामिदिनेषु राज्य-मण्डल-विभाग-स्तरं यावत् प्रचलति।
भाजपादलस्य राष्ट्रीयाध्यक्षेण जगतप्रकाशनड्डावर्येण मातु: बज्रेश्वरी-देव्या: दर्शनं कृतम्, अवदत् – मातु: दर्शनेन नूतना ऊर्जा प्राप्यते
हिमसंस्कृतवार्ता- धर्मशाला।
भाजपादलस्य राष्ट्रीयाध्यक्ष जगतप्रकाशनड्डा न रविवासरे शक्तिपीठस्य मातु: श्रीबज्रेश्वरीदेव्या: दर्शनं कृत्वा प्रणामम् अकरोत्। मन्दिरस्य अर्चक: पंडित उमाशंकर: शर्मा इत्यनेन औपचारिकपूजां कृत्वा जगतप्रकाशनड्डावर्यं मन्दिरस्य इतिहासस्य विषये सूचितम्। तस्मिन् एव काले मन्दिरप्रशासनेन नड्डा इत्यस्मै मातुः उत्तरीयं, चित्रं च दत्त्वा सम्मानः कृतः । अस्मिन् अवसरे जगतप्रकाशनड्डा उक्तवान् यत् यदापि काङ्गड़ां आगच्छामि मातु: दर्शनं अवश्यमेव करोमि। अद्य अपि मातु: द्रष्टुं सौभाग्यं प्राप्तम्।
नड्डा अवदत् यत् मातुः दर्शनेन तस्मै नूतना ऊर्जा, बलं च प्राप्यते। अहं मातरं प्रार्थयामि यत् तस्याः आशीर्वादेन अहं समाजकल्याणाय निरन्तरं कार्यं करोमि। अस्मिन्नवसरे भाजपादलस्य प्रदेशाध्यक्ष: डॉ राजीवबिंदल: , पूर्व मुख्यमंत्री जयरामठाकुरः, सह प्रभारी संजयटण्डन: विधायक: पवनकाजल: च तेन सह आसन्।