‘विकसितभारतम् २०४७: युवावाणी’ इति उपक्रमस्य शुभारम्भः
प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् भारताय अयमेव उचितः समयः वर्तते अपि च युवकैः विकसितभारताय अस्य अमृतकालस्य उपयोग: करणीय। दृश्यश्रव्य इति अन्तर्जालीयमाध्यमेन ‘सप्तचत्वारिंशदधिक- द्विसहस्रतमं विकसितभारतम्ः युवकानां ध्वनिः’ इत्यस्य उपक्रमस्य शुभारम्भं कुर्वता श्रीमोदिना कथितं यत् भारतस्य इतिहासे एषः एव समयः वर्तते यदा देश: नूतनं कीर्तिमानं स्थापयति । असौ युवकैः विकसितभारतस्य निर्माणदिशि कार्य कर्तुं आग्रहं कृतवान्। अस्य उपक्रमस्य उद्देश्यं विकसितभारताय देशस्य यूनां एकत्रीकरणं वर्तते। प्रधानमन्त्री अस्याः कार्यशालायाः आयोजनकर्तृभ्यः सर्वेभ्यः राज्यपालेभ्यः शुभकामनां प्रदत्वान्। तेनोक्तं यत् शिक्षासंस्थानां भूमिका जनानां विकासः वर्तते। तेन एतदपि कथितं यत् जनानां विकासैव राष्ट्रनिर्माणं भवितुं शक्यते।
‘विकसितभारतम् २०४७ : युवावाणी’ इति उपक्रमस्य शुभारम्भः
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment