मोहन_यादवः मध्यप्रदेशस्य नूतनः मुख्यमन्त्री
मध्यप्रदेशस्य नूतनः मुख्यमन्त्री मोहनयादवः भविष्यति। सोमवासरे विधायकदलस्य संगोष्ठ्यां मोहनयादवस्य नाम घोषितम्। एतेन सह नरेन्द्रसिंहतोमरः सभापतिः कृतः अस्ति। मध्यप्रदेशे उपमुख्यमन्त्रिणौ द्वौ इपि चितौ। जगदीशदेवड़ा राजेन्द्रशुक्ला च उपमुख्यमन्त्रिणौ स्वीकृतौ। एतस्मात् पूर्वं पर्यवेक्षकाः भाजपा-वरिष्ठनेतृभिः सह वार्तालापं कृत्वा मध्यप्रदेशस्य मुख्यमन्त्रिणः नाम विषये निर्णयः स्वीकृतः, तदनन्तरं हरियाणा राज्यस्य मुख्यमन्त्री मनोहरलालखट्टरः, भाजपा दलस्य सांसदः लक्ष्मणश्च दलस्य नेता आशा लकड़ा च भोपालनगरस्य राज्यमुख्यालये विधायकैः सह संगोष्ठीं कृतवन्तः।
ध्यातव्यं वर्तते यत् मध्यप्रदेश निर्वाचने भाजपा दलेन २३० आसनेषु १६३ आसनेषु प्रचण्डबहुमतः प्राप्तः वर्तते। तदनन्तरं दले मुख्यमन्त्रिणः चयनविषये चर्चा प्रारब्धा। अस्यां स्पर्धायां शिवराजसिंहचौहानः, ज्योतिराजसिंधिया, नरेन्द्रसिंहतोमरः राकेशसिंहः, कैलाशविजयवर्गीय इत्यादीनां दिग्गजानां नामानि चर्चायां आसन्।
मोहन_यादवः मध्यप्रदेशस्य नूतनः मुख्यमन्त्री
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment